बालिद्वीपप्रसिद्धं अक्षररामायणम् (कविजानकीविरचितम्) | AksharRamayanam by Kavi Janaki
बालिद्वीपप्रसिद्धं अक्षररामायणम् (कविजानकीविरचितम्) |
AksharRamayanam by Kavi Janaki
ॐ
रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ ।
वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥ १॥
श्रीः
धन्यं मङ्गल्यमायुष्यं अलक्ष्मीकलिनाशनम् ।
रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥ २॥
अ
अयोध्याधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः ।
राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥
आ
आचारविनयोपेताः सत्यसन्धा दृढव्रताः ।
शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥ ४॥
इ
इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया ।
दृढव्रतो राज्ञ इष्टो रामस्संप्रस्थितो वनम् ॥ ५॥
ई
ओहितेनाभिषेकेन रामस्संप्रस्थितो वनम् ।
सीता चानुगता साध्वी लक्ष्मणश्च महाबलः ॥ ६॥
उ१
उपवासपरो रामः तपस्वी दण्डके वने ।
सभार्यस्सभ्रातृकश्च चचार मुनिभिस्स्तुतः ॥ ७॥
उ२
ऊनशूर्पणखादोषात् रामस्य च पराक्रमात् ।
तत्र पाराभवः कालो राक्षसानामुपस्थितः ॥ ८॥
उ३
ऊनस्तु रामवीर्येण रावणो नाम राक्षसः ।
तेन दुष्टात्मना सीता छलेनापहता वने ॥ ९॥
ऋ
ऋषिधर्मसमायुक्तं मारीचं नाम मातुलम् ।
आगम्य रावणः पापः ततस्तद्वाक्यमब्रवीत् ॥ १०॥
ऋ
कृतिं कृत्वा छलेन त्वं दूरं गच्छ वनेषु मे ।
दशरथात्मजं हत्वाऽरामं तत्र करोम्यहम् ॥ ११॥
ऌ
लोम्ना काञ्चनरूपेण मृगो भूत्वा स शृङ्गऌः ।
लोभयित्वा तु वैदेही व्यहरद् दण्डकावने ॥ १२॥
ॡ
सीतां कमलपत्राक्षी उपासीनां वने तदा ।
लृकारकुटिलो हत्वा रावणोऽगान्नभस्तलम् ॥ १३॥
ए
एतस्मिन्नन्तरे गृध्रो जटायुर्नाम धार्मिकः ।
तेन ताभ्यां समाख्यातं सीतायाः परिमार्गणे ॥ १४॥
ऐ
ऐश्वर्य-मद-मत्तेन रावणेन खगाधिपम् ।
हत्वा तस्मिन् वने गृधं सीता लङ्कां प्रवेशिता ॥ १५॥
ओ
ओघशोकनिमग्नस्सः सीतावत्सलराघवः ।
कपिना हीनराज्येन सुग्रीवेण समागतः ॥ १६॥
औ
औषधं परमं प्राप्तः सुग्रीवो रामदर्शनात् ।
हत्वा च वालिनं रामः सुग्रीवं चाभ्यषेचयत् ॥ १७॥
अम्
महाकपिं हनूमन्तं सत्यसन्धं दृढव्रतम् ।
सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ॥ १८॥
अः
हनूमान् वानरश्रेष्ठो जाम्बवान् कृतनिश्चयः ।
तारेयः कपिभिस्सार्धं भ्रमन्तो दक्षिणां दिशम् ॥ १९॥
क
कथयन्तस्स्ववृत्तान्तं कुत्रचित् कालपर्ययात् ।
अलब्ध्वाऽन्तश्च वैदेहीं चक्रुः प्रायोपवेशनम् ॥ २०॥
ख
खगस्तु सिद्धकार्यार्थः सम्पातो नाम धार्मिकः ।
तेन तेषां समाख्यातं सीतायाः परिमार्गणे ॥ २१॥
ग
गत्वा पारं समुद्रस्य वेगेन गरुडो यथा ।
दृष्ट्वा लङ्कां च नगरीं सीतां च जनकात्मजाम् ॥ २२॥
घ
घनेऽशोकवने देशे समागत्य स मैथिलीम् ।
हनूमान् लब्धसन्देशो राक्षसान् विन्यसूदयत् ॥ २३॥
ङ
ङकारसदृशीं कृत्वा ललाटे भृकुटिं तथा ।
क्रुद्धनेन्द्रजिता धीरो गृहीतो हनुमान् कपिः ॥ २४॥
च
चन्द्रमण्डलसङ्काशं लाङ्गुलं तस्य राक्षसाः ।
शुक्लैरावेष्टितं वस्त्रैः तैलाभ्यङ्गमदीपयन् ॥ २५॥
छ
छलयित्वा ततस्सर्वान् राक्षसान् विपुलो हरिः ।
लाङ्गूलेन प्रदीप्तेन लङ्कामादीपयत् पुरीम् ॥ २६॥
ज
जलमध्ये स निर्वाप्य लाङ्गूलं प्लवगेश्वरः ।
कृतामयं पुरं दग्ध्वा पुनरागमनोत्सुकः ॥ २७॥
झ
झषालयं समुत्प्लुत्य हरिरुत्तम आगतः ।
सिद्धकार्योऽतित्वरितः प्रदेशं यत्र राघवः ॥ २८॥
ञ
ञकारवदनो भूत्वा हनूमान् स हरीश्वरः ।
न्यवेदयदशेषेण राघवाय महात्मने ॥ २९॥
ट
टकारसदृशं चापं सशरं रघुनन्दनः ।
गृहीत्वा प्रस्थितस्तूर्णं सीतायाः परिमार्गणे ॥ ३०॥
ठ
ठकाराकारनेत्राणां हरीणामयुतव्रताः ।
सुग्रीवस्याग्रतो यान्ति प्रीताः कर्तव्यलालसाः ॥ ३१॥
ड
डयन्त इव वेगेन गत्वा पारं महोदधेः ।
राघवश्शरमुद्यम्य पश्चात्तत्रोपयाचितः ॥ ३१॥
ढ
ढकारसदृशीं कृत्वा ललाटे भ्रुकुटीं तदा ।
हनुमानग्रतो याति राघवस्य हिते रतः ॥ ३३॥
ण
णकारसदृशैः पद्मैः प्राञ्जलिः प्रत्युपस्थितः ।
उवाच सागरो रामं सेतुं मम जले कुरु ॥ ३४॥
त
तस्य तद्वचनं श्रुत्वा सुग्रीवो नळमब्रवीत् ।
नळ! भद्रं कुरुष्व त्वं सेतुं तत्र महार्णवे ॥ ३५॥
थ
स्थूलं मृष्टोपमं दिव्यं विश्वकर्मसुतो नलः ।
चकार सेतुं धर्मात्मा सागरे मकरालये ॥ ३६॥
द
दशयोजनविस्तीर्णं आयतं शतयोजनम् ।
येन वानरसेनाऽगात् समुत्पत्य महोदधिम् ॥ ३७॥
ध
धनुर्वीर्यं समाश्रित्य राघवस्सह वानरैः ।
राक्षसान् योधयामास क्रोधसंरक्तलोचनः ॥ ३८॥
न
नगर्यां मोघयुद्धायां रावणस्सह राक्षसैः ।
ततो द्वाराद् विनिष्क्रम्य चकारायोधनं महत् ॥ ३९॥
प
पनसश्शरभो मैन्दो नीलो मारुतिरङ्गदः ।
नानावृक्षैश्शिलाभिश्च राक्षसान् विन्यसूदयन् ॥ ४०॥
फ
फलितैः पादपैः कूले रोषिताश्शक्तितोमरैः ।
राक्षसाः खण्डनं चक्रुः वानराणां चमूमुखे ॥ ४१॥
ब
बलवान् राघवश्श्रीमान् दशग्रीवं जघान सः ।
निहतं रावणं दृष्ट्वा विभीषणमथाब्रवीत् ॥ ४२॥
भ
भक्तोऽसि मयि रक्षेन्द्र! धार्मिकश्चापि सुव्रतः ।
अराक्षसमिदं कर्म कृतं तुष्टोऽस्मि ते विभो! ॥ ४३॥
म
मया दत्तं राज्यमिदं भुङ्क्ष्व पूलस्त्यनन्दन !
सपुत्रभृत्यानुचरो भुङ्क्ष्व राज्यमकण्टकम् ॥ ४४॥
य
यदर्थमयमारम्भः कृतो मे राक्षसेश्वर!
तामहं द्रष्टुमिच्छामि गच्छ त्वं सहलक्ष्मणः ॥ ४५॥
र
रक्तः प्रियहिते युक्तो लक्ष्मणेन विभीषणः ।
आरोचयञ्च वैदेहीं काकुत्स्थाय महात्मने ॥ ४६॥
ल
लङ्कां प्रविश्य नगरी ददर्श जनकात्मजाम् ।
कृशां विवर्णां मलिनां दर्शयामास सुप्रियाम् ॥ ४७॥
व
वरारोहां तदा दृष्ट्वा रामश्चिन्तासमन्वितः ।
अग्नौ विशुद्धामादाय पुष्पकेण ययौ ततः ॥ ४८॥
श
शत्रून् हत्वाऽतिवेगेन पूर्वमागम्य राघवः ।
नन्दिग्रामे समादाय भरतं मित्रवत्सलम् ॥ ४९॥
ष
षाङ्गण्यसुगतिश्श्रीमान् राघवस्सह सीतया ।
षड्गुणस्सु सङ्गतो भ्रातृभिस्सार्धं मातृभिस्स समागतः ॥ ५०॥
स
समेत्य हृष्टहृदयः पौरजानपदैस्सह ।
गवां शतसहस्राणि ब्राह्मणेभ्यः प्रदत्तवान् ॥ ५१॥
ह
हतशत्रुर्महेन्द्राण्या शतक्रतुरिवापरः ।
शतं वर्षसहस्राणां रामो राज्यमवासयत् ॥ ५२॥
अनुबन्धः
क्ष
क्षत्रं ब्रह्माच्युतं जीयात् जीवनं जगतां परम् ।
ज्ञानानन्दमयं ज्योतिः ईळे तन्मातृकाक्षरम् ॥ १॥
सपञ्चशतसाहस्रसंवत्सरसनातनम् ।
प्राङ्मातृकाक्षरैश्श्लोकैः सार्धपञ्चाशता स्थितम् ॥ २॥
बलिद्वीपान्तरे लब्धं जानकीकविनिर्मितम् ।
रामेण संस्कृतं जीयात् श्रीरामायणमक्षरम् ॥ ३॥
इदं बरोडानगरे राज्ञा मुद्रापितं पुरा ।
स्वीकृतं बालबोधार्थं बालिद्वीपप्रबन्धगम् ॥ ४॥
नष्टवर्ण-विसंवादं शमयन् वर्णसङ्करम् ।
ऊप्लुतं ऌविकारान्कं अभेदं रलयोर्दिशन् ॥ ५॥
व्युदस्यन् क्वचिदेवात्र श्लोकलक्षणभञ्जनम् ।
ओं श्रीमदक्षरं रामायणमित्यभिधां दिशन् ॥ ६॥
प्रथमाक्षरयोगेन मातृकाक्षरयोजनात् ।
षष्टिवर्णपरीवर्तात् नवत्यक्षरयोजनात् ॥ ७॥
तत्र तत्र च संरक्षन् साभिप्रायं वचः कवेः ।
अष्टश्लोकीं ततः कुर्वन् रामस् संस्कृतवानिदम् ॥ ८॥
बालिद्वीपप्रसिद्धं अक्षररामायणं सम्पूर्णम् ।