अष्टाक्षरश्रीराममन्त्रस्तोत्रम् | अष्टाक्षर श्री राम मंत्र स्तोत्र
॥ अष्टाक्षरश्रीराममन्त्रस्तोत्रम् ॥
श्रीरामः शरणं मम ।
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ।
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥
ॐ
विश्वस्य चात्मनोनित्यं पारतन्त्र्यं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ २॥
अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येनैव विद्यते ।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ ३॥
आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च ।
चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम ॥ ४॥
नित्यात्म गुण संयुक्तो नित्यात्मतनुमण्डितः ।
नित्यात्मकेलिनिरतः श्रीरामःशरणं मम ॥ ५॥
गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते ।
अतोवाङ्मनसा वेद्यः श्रीरामःशरणं मम ॥ ६॥
कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः ।
आहर्ता कार्य जातस्य श्रीरामःशरणं मम ॥ ७॥
वासुदेवादिमूर्तीनां चतुर्णां कारणं परम् ।
चतुर्विंशति मूर्तीनां श्रीरामःशरणं मम ॥ ८॥
नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे ।
पदं परमभक्तानां श्रीरामः शरणं मम ॥ ९॥
महदादिस्वरूपेण संस्थितः प्राकृते पदे ।
ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥ १०॥
मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्तियः ।
याःप्राकृत स्वरूपेण श्रीरामःशरणं मम ॥ ११॥
ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् ।
योऽन्तरात्मा च सर्वेषां श्रीरामःशरणं मम ॥ १२॥
योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः ।
आस्थितः सर्वभावेषु श्रीरामःशरणं मम ॥ १३॥
बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन् ।
परिपाति जनान्दीनान् श्रीरामःशरणं मम ॥ १४॥
यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः ।
आर्चायामास्थितो देवः श्रीरामःशरणं मम ॥ १५॥
अर्चावतार रूपेण दर्शनस्पर्शनादिभिः ।
दीनानुद्धरते योऽसौ श्रीरामःशरणं मम ॥ १६॥
कौशल्या शुक्तिसञ्जातो जानकी कण्ठभूषणः ।
मुक्ताफलसमो योऽसौ श्रीरामःशरणं मम ॥ १७॥
विश्वामित्रमखत्राता ताडकागतिदायकः ।
अहल्याशाप शमनः श्रीरामःशरणं मम ॥ १८॥
पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः ।
जामदग्न्यप्रतापघ्नः श्रीरामःशरणं मम ॥ १९॥
राज्याभिषेकसंहृष्टः कैकेयी वचनात्पुनः ।
पित्रदत्तवनक्रीडः श्रीरामःशरणं मम ॥ २०॥
जटाचीरधरोधन्वी जानकीलक्ष्मणान्वितः ।
चित्रकूटकृतावासः श्रीरामःशरणं मम ॥ २१॥
महापञ्चवटीलीला सञ्जातपरमोत्सवः ।
दण्डकारण्य सञ्चारी श्रीरामःशरणं मम ॥ २२॥
खरदूषणविच्छेदी दुष्टराक्षस भञ्जनः ।
हृतशूर्पनखाशोभः श्रीरामःशरणं मम ॥ २३॥
मायामृग विभेत्ता च हृतसीतानुतापकृत् ।
जानकीविरहाक्रोशी श्रीरामःशरणं मम ॥ २४॥
लक्ष्मणानुचरोधन्वी लोकयात्रविडम्बकृत् ।
पम्पातीर कृतान्वेषः श्रीरामःशरणं मम ॥ २५॥
जटायुगति दाता च कबन्धगतिदायकः ।
हनुमत्कृतसाहित्य श्रीरामःशरणं मम ॥ २६॥
सुग्रीवराज्यदः श्रीशो बालिनिग्रह कारकः ।
अङ्गदाश्वासनकरः श्रीरामःशरणं मम ॥ २७॥
सीतान्वेषणनिर्मुक्त हनुमत्प्रमुखब्रजः ।
मुद्रानिवेशितबलः श्रीरामःशरणं मम ॥ २८॥
हेलोत्तरितपाथोधिर्बलनिर्धूतराक्षसः ।
लङ्कादाहकरो धीरः श्रीरामःशरणं मम ॥ २९॥
रोषसम्बद्धपाथोधिर्लङ्काप्रासादरोधकः ।
रावणादिप्रभेत्ता च श्रीरामःशरणं मम ॥ ३०॥
जानकी जीवनत्राता विभीषणसमृद्धिदः ।
पुष्पकारोहणासक्तः श्रीरामःशरणं मम ॥ ३१॥
राज्यसिंहासनारूढः कौशल्यानन्दवर्द्धनः ।
नामनिर्धूतनिरयः श्रीरामःशरणं मम ॥ ३२॥
यज्ञकर्त्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः ।
अयोध्यामुक्तिदः शास्ता श्रीरामःशरणं मम ॥ ३३॥
प्रपठेद्यः शुभं स्तोत्रं मुच्येत् भवबन्धनात् ।
मन्त्रश्चाष्टाक्षरो देवः श्रीरामःशरणं मम ॥ ४॥
॥ इति अष्टाक्षर श्रीराममन्त्रस्तोत्रम् ॥