नमस्काराष्टकम् | Namaskarashtakam
नमस्काराष्टकम् | Namaskarashtakam
रमाकान्तरामं भवारामरामं विरामेऽभिरामं प्रशान्तप्रकामम् ।
परब्रह्मरूपं चिदानन्दरूपं स्फुरच्चारुचापं नतोऽहं नतोऽहम् ॥ १॥
नभोनीलरूपं धृतानन्तरूपं कृतारिप्रकोपं हृतारिप्रपापम् ।
जटाजूटरूपं सतीभ्रान्तिकारं त्रिलोकोपकारं नतोऽहं नतोऽहम् ॥ २॥
अहल्याघहारं हि ताराजतारं भवाम्भोधिपारं गृहीतावतारम् ।
शृतिव्रातसारं धराधामधारं दशास्यापहारं नतोऽहं नतोऽहम् ॥ ३॥
कृताम्भोधिसेतुं सुरत्राणहेतुं मदान्धाँश्चजेतुं रघोर्वंशकेतुम् ।
रिपौ दण्ड पाणिं रणे शार्ङ्गपाणिं मनोहारिवाणिं मतोऽहं नतोऽहम् ॥ ४॥
मुनीन्द्रैः सुरेन्द्रैर्द्विजेन्द्रैर्नरेन्द्रैः सुगीतं ससीतं प्रदीप्तं प्रपीतम् ।
दहन्तं प्रदाहं सुबाहुं नृसिंहं तडित्ताडकाहं नतोऽहम नतोऽहम् ॥ ५॥
जगज्जानृपालं भवालम्बनालं धृताम्भोजमालं कृपालुं नृपालम् ।
चलच्चारुचालं करादत्ततालं सुसाकेतबालं नतोऽहं नतोऽहम् ॥ ६॥
कपीन्द्रादिन्वद्यं नृपेन्द्राद्यनिन्द्यं खराखर्वगर्वं हरन्तं वरं तम् ।
महाकालकालं महावालिनेऽलं बलेरङ्कवालं नतोऽहं नतोऽहम् ॥ ७॥
ग्रसद्व्यालकालं महाश्चर्यशीलं कृतारण्यवासं घृतागण्यभासम् ।
सदाश्रीनिवासं ससन्मन्दहासं सुसीताविलासं नतोऽहं नतोऽहम् ॥ ८॥
आचार्यसार्वभौमेण श्रीमद्देवमुरारिणा ।
प्रणीतमष्टकं चैतत् पठतां मुक्तिदायकम् ॥ ९॥
इति जगद्गुरुश्रीमुरारिदेवाचार्यप्रणीतं नमस्काराष्टकं सम्पूर्णम् ।