॥ श्रीमद्रामायणं समर्थरामदासविरचितम् ॥
॥ श्रीमद्रामायणं समर्थरामदासविरचितम् ॥
वैकुण्ठौकः पुरा भूमौ योऽयोध्यायामवातरत् ।
कौसल्यायाः स्तनं पातुं मातर्भूतं स एव मे ॥ १॥
कौशिकस्याश्रमं यास्यन् यो दृष्ट्वा पथि दारुणाम् ।
ताटकां निजघानाशु मातर्भूतं स एव मे ॥ २॥
यस्य पादाब्जसंस्पर्शाद् गच्छतो विपिनाध्वना ।
शिलाऽमलाऽभूल्ललना मातर्भूतं स एव मे ॥ ३॥
जनकस्य पुरं गत्वा यो बभञ्जैश्वरं धनुः ।
उपयेमे च वदेहीं मातर्भूतं स एव मे ॥ ४॥
सन्त्रस्तो भार्गवो यस्माद्धनुर्यस्मै समर्पयत् ।
यस्मिन् न्यधात् स्वकं तेजो मातर्भूतं स एव मे ॥ ५॥
कृतप्रतिश्रवाद्भ्रश्येत् कैकेय्यै न पिता मम ।
इति योऽभूदरण्यौकः मातर्भूतं स एव मे ॥ ६॥
चतुर्दशसमा भ्राम्यंस्तपस्वी यो वने स्थितः ।
लक्ष्मणेनान्वितः नित्यं मातर्भूतं स एव मे ॥ ७॥
सुग्रीवो रक्षितो येन वाली स्वर्गातिथिः कृतः ।
बबन्धे सेतुना सिन्धुः मातर्भूतं स एव मे ॥ ८॥
रावणं सकुलं हत्वा योऽभ्यरक्षद्विभीषणम् ।
अमूमुचत् सुरान् बन्धात् मातर्भूतं स एव मे ॥ ९॥
आदाय यश्च वामाङ्गीं च्चाल सरयूतटम् ।
सङ्गतो भरतेनाभून्मातर्भूतं स एव मे ॥ १०॥
हृदयं सर्वभूतानां रामराज इति श्रूतः ।
श्लाघ्यते रमदासेन मातर्भूतं स एव मे ॥ ११॥
॥ ॐ तत्सत्॥