श्रीरामाष्टोत्तरनामावली
॥ श्रीरामाष्टोत्तरनामावली ॥
ॐ श्रीरामाय नमः ।
ॐ रामभद्राय नमः ।
ॐ रामचन्द्राय नमः ।
ॐ शाश्वताय नमः ।
ॐ राजीवलोचनाय नमः ।
ॐ श्रीमते नमः ।
ॐ राजेन्द्राय नमः ।
ॐ रघुपुङ्गवाय नमः ।
ॐ जानकीवल्लभाय नमः । १०
ॐ जैत्राय नमः ।
ॐ जितामित्राय नमः ।
ॐ जनार्दनाय नमः ।
ॐ विश्वामित्रप्रियाय नमः ।
ॐ दान्ताय नमः ।
ॐ शरणत्राण तत्पराय नमः ।
ॐ वालिप्रमथनाय नमः ।
ॐ वाग्मिने नमः ।
ॐ सत्यवाचे नमः ।
ॐ सत्यविक्रमाय नमः ।
ॐ सत्यव्रताय नमः ।
ॐ व्रतधराय नमः । १०
ॐ सदाहनुमदाश्रिताय नमः ।
ॐ कौसलेयाय नमः ।
ॐ खरध्वंसिने नमः ।
ॐ विराधवधपण्डिताय नमः ।
ॐ विभीषण परित्रात्रे नमः ।
ॐ हरकोदण्ड खण्डनाय नमः ।
ॐ सप्तताल प्रभेत्त्रे नमः ।
ॐ दशग्रीव शिरोहराय नमः ।
ॐ जामद्ग्न्य महादर्पदलनाय नमः ।
ॐ ताटकान्तकाय नमः ।
ॐ वेदान्तसाराय नमः । १०
ॐ वेदात्मने नमः ।
ॐ भवरोगस्य भेषजाय नमः ।
ॐ दूषण त्रिशिरो हन्त्रे नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलोकात्मने नमः ।
ॐ पुण्यचारित्रकीर्तनाय नमः ।
ॐ त्रिलोकरक्षकाय नमः ।
ॐ धन्विने नमः ।
ॐ दन्डकारण्य पुण्यकृते नमः । १०
ॐ अहल्या शाप शमनाय नमः ।
ॐ पितृ भक्ताय नमः ।
ॐ वरप्रदाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितामित्राय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ ऋक्ष वानर सङ्घातिने नमः ।
ॐ चित्रकूट समाश्रयाय नमः ।
ॐ जयन्त त्राण वरदाय नमः ।
ॐ सुमित्रापुत्र सेविताय नमः ।
ॐ सर्वदेवादि देवाय नमः । १०
ॐ मृतवानर् जीविताय नमः ।
ॐ मायामारीचहन्त्रे नमः ।
ॐ महादेवाय नमः ।
ॐ महाभुजाय नमः ।
ॐ सर्वदेवस्तुताय नमः ।
ॐ सौम्याय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ मुनिसंस्तुताय नमः ।
ॐ महा योगिने नमः ।
ॐ महोदराय नमः ।
ॐ सुग्रीवेप्सित राज्यदाय नमः ।
ॐ सर्वपुण्याधिक फलाय नमः । १०
ॐ स्मृत सर्वाघ नाशनाय नमः ।
ॐ आदिपुरुषाय नमः ।
ॐ परमपुरुषाय नमः ।
ॐ महापुरुषाय नमः ।
ॐ पुण्योदयाय नमः ।
ॐ दयासाराय नमः ।
ॐ पुराणपुरुषोत्तमाय नमः ।
ॐ स्मितवक्त्राय नमः ।
ॐ मितभाषिणे नमः ।
ॐ पूर्वभाषिणे नमः ।
ॐ राघवाय नमः ।
ॐ अनन्तगुण गम्भीराय नमः ।
ॐ धीरोद्दात्तगुणोत्तमाय नमः । १०
ॐ मायामानुष चरित्राय नमः ।
ॐ महादेवादिपूजिताय नमः ।
ॐ सेतुकृते नमः ।
ॐ जितवाराशये नमः ।
ॐ सर्वतीर्थमयाय नमः ।
ॐ हरये नमः ।
ॐ श्यामाङ्गाय नमः ।
ॐ सुन्दराय नमः ।
ॐ शूराय नमः । १०
ॐ पीतवाससे नमः ।
ॐ धनुर्धराय नमः ।
ॐ सर्वयज्ञाधिपाय नमः ।
ॐ यज्वने नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ विभीषण प्रतिष्ठात्रे नमः ।
ॐ सर्वावगुणवर्जिताय नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मै ब्रह्मणे नमः । १०
ॐ सच्चिदानन्द विग्रिहाय नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ पराकाशाय नमः ।
ॐ परात्पराय नमः ।
ॐ परेशाय नमः ।
ॐ पारगाय नमः ।
ॐ पाराय नमः ।
ॐ सर्वदेवात्मकाय परस्मै नमः । १०८
॥ इति रामाष्टोत्तरशत नामावलिः ॥