श्रीरामपादुकास्तोत्रम् (श्रीवेदान्तदेशिककृतम्)
श्रीरामपादुकास्तोत्रम् (श्रीवेदान्तदेशिककृतम्)
सन्तः श्रीरङ्ग-पृथ्वीश-चरणत्राण-शेखराः ।
जयन्ति भुवन-त्राणपदपङ्कज-रेणवः ॥ १॥
वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् ।
यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥ २॥
वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् ।
उन्नतानामवनतिः नतानां यत्र चोन्नतिः ॥ ३॥
भजामः पादुके याभ्यां भरतस्याग्रजस्तदा ।
प्रायः प्रति-प्रयाणाय प्रास्थानिकमकल्पयत् ॥ ४॥
प्रशस्ते रामपादाभ्यां पादुके पर्युपास्महे ।
आनृशंस्यं ययोरासीदाश्रितेष्वनवग्रहम् ॥ ५॥
अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।
अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥ ६॥
पाहि नः पादुके यस्याः विधास्यन्नभिषेचनम् ।
आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम् ॥ ७॥
अभिषेकोत्सवात्तस्माद्यस्या निर्यातनोत्सवः ।
अत्यरिच्यत तां वन्दे भव्यां भरतदेवताम् ॥ ८॥
नमस्ते पादुके पुंसां संसारार्णवसेतवे ।
पदारोहस्य वेदान्ताः वन्दिवैतालिकाः स्वयम् ॥ ९॥
शौरेः शृङ्गारचेष्टानां प्रसूतिं पादुकां भजे ।
यामेष भुङ्क्ते शुद्धान्तात्पूर्वं पश्चादपि प्रभुः ॥ १०॥
अग्रतस्ते गमिष्यामि मृद्नन्ती कुश-कण्टकान् ।
इति सीताऽपि यद्वृत्तिं इयेष प्रणमामि ताम् ॥ ११॥
शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता ।
पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम् ॥ १२॥
पान्तु वः पद्मनाभस्य पादुकाकेलिपांसवः ।
अहल्यादेहनिर्माणपर्यायपरमाणवः ॥ १३॥
श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्रपादुके ।
मिथः सङ्घर्षसञ्जातं रजः किमपि शिञ्जितम् ॥ १४॥
उदर्चिषस्ते रङ्गेन्द्रपदावनि बहिर्मणीन् ।
अन्तर्मणिरवं श्रुत्वा मन्ये रोमाञ्चिताकृतीन् ॥ १५॥
मुखबाहूरूपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।
प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥ १६॥
प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् ।
पदेकनियतां तस्य पद्मवासामिवापराम् ॥ १७॥
बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च ।
प्रत्यक्षं शेषशेषित्वं सा मे सिद्ध्यतु पादुका ॥ १८॥
वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् ।
यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥ १९॥
हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा ।
अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥ २०॥
शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् ।
प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे ॥ २१॥
कल्याणप्रकृतिं वन्दे भजन्तीं काञ्चनश्रियम् ।
पदार्हां पादुकां शौरेः पद एव निवेशिताम् ॥ २२॥
सृष्टं भूमावनन्तेन नित्यं शेषसमाधिना ।
अहं सम्भावयामि त्वामात्मानमिव पादुके ॥ २३॥
प्रपद्ये पादुकारूपं प्रणवस्य कलाद्वयम् ।
ओन्तं मितमिदं यस्मिन् अनन्तस्यापि तत्पदम् ॥ २४॥
अणोरणीयसीं विष्णोर्महतोऽपि महीयसीम् ।
प्रपद्ये पादुकां नित्यं तत्पदेनैव सम्मताम् ॥ २५॥
उदग्रयन्त्रकां वन्दे पादुकां यन्निवेशनात् ।
उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥ २६॥
सूचयन्तीं स्वरेखाभिरनालेख्यसरस्वतीम् ।
आलेखनीयसौन्दर्यामाश्रये शौरिपादुकाम् ॥ २७॥
कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि ।
पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥ २८॥
विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः ।
श्रेयस्साधनमाम्नतं तत्पदत्रं तथास्तु मे ॥ २९॥
प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् ।
विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥ ३०॥
प्रपद्ये पादुकां देवीं परविद्यामिव स्वयम् ।
यामर्पयति दीनानां दयमानो जगद्गुरुः ॥ ३१॥
उपाख्यातं तथात्वेन वसिष्ठाद्यैर्महर्षिभिः ।
उपायफलयोः काष्ठामुपासे रामपादुकाम् ॥ ३२॥
जयति यतिराजसूक्तिर्जयति मुकुन्दस्य पादुकायुगळी ।
तदुभयधनास्त्रिवेदीमवन्ध्ययन्तो जयन्ति भुवि सन्तः ॥ ३३॥
इति श्रीवेदान्तदेशिककृतं श्रीरामपादुकास्तोत्रं सम्पूर्णम् ।