श्री अयोध्या पञ्चकम् | Shri Ayodhya Panchakam
श्री अयोध्या पञ्चकम् | Shri Ayodhya Panchakam
!! श्री जानकीवल्लभो विजयते !!
याऽयोध्या जगती तलेतु मनुना वैकुण्ठतो ह्यानिता
याचित्वा निजसृष्टिपालनपरं वैकुण्ठनाथं प्रभुम् ।
या वै भूमितले निधाय विमला चेक्ष्वाकवे चार्पिता
साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ १॥
या चक्रोपरि राजते च सततं वैकुण्ठनाथस्य वै
या वै मानवलोकमेत्य सकलान् दात्री सदा वाञ्छितान् ।
या तीर्थानि पुनाति सन्ततमहो वर्वर्त्ति तीर्थोपरि
साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ २॥
यस्यां वैष्णव सज्जनाः सुरसिकाः स्वाचारनिष्ठाः सदा
लीला धाम सुनाम रूप दयिताः श्रीरामचन्द्रेरताः ।
यस्यां श्रीरघुवंशजः परिकरैः सार्द्धं सदा राजते
साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ ३॥
यस्यां तीर्थशतं सदा निवसति ह्यानन्ददं पावनं
यस्या दर्शन लालसा मुनिवरा ध्यानेरताः सर्वदा ।
यस्या भूमि रजस्त्वजादि विवुधा वाञ्छन्ति स्वामीष्टदं
साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ ४॥
यस्यां भाति प्रमोदकाननवरं रामस्य लीलास्थलं
यत्र श्रीसरिताम्बरा च सरयू रत्नाचलः शोभते ।
ध्येया ब्रह्ममहेशविष्णुमुनिभिर्हृआनन्ददा सर्वदा
साऽयोध्या परमात्मनो विजयते धाम्नां परा मुक्तिदा ॥ ५॥
यः श्लोकपञ्चकमिदं मनुजः पठेत
ध्यात्वाहृदि प्रतिदिनं रघुनन्दनाङ्घ्रिम् ।
हित्वा बहूनि दुरितानि पुरार्जितानि
प्राप्नोत्वभीष्टधनधर्ममथापवर्गम् ॥ ६॥
इति ब्रह्मचारी श्री भगीरथरामजी विरचितं
श्रीअयोध्या पञ्चकं सम्पूर्णम् ।
Pingback: तीर्थ पुरी स्तुति स्तोत्र स्तवन संग्रह | Collection of Tirth Puri Stuti Stotra Stavan