श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः
श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः
श्रीमद्रामं रघूत्तंसं सच्चिदानन्दलक्षणम् ।
भवन्तं करुणावन्तं गाये त्वां मनसा गिरा ॥ १॥
रामे दूर्वादलश्यामे जानकी कनकोज्ज्वला ।
भाति मद्दैवते मेघे विद्युल्लेखेव भास्वरा ॥ २॥
त्वदन्यं न भजे राम निष्कामोऽन्ये भजन्तु तान् ।
भक्तेभ्यो ये पुरा देवा आयुः कीर्तिं प्रजां ददुः ॥ ३॥
भजनं पूजनं राम करिष्यामि तवानिशम् ।
श्रियं नेच्छामि संसाराद्भयं विन्दति मामिह ॥ ४॥
श्रीराम जानकीजाने भुवने भवने वने ।
स्वभक्तकुलजातानामस्माकं भविता भव ॥ ५॥
राम रामेति रामेति वदन्तं विकलं भवान् ।
यमदूतैरनुक्रान्तं वत्सं गौरिव धावति ॥ ६॥
स्वच्छन्दचारिणं दीनं राम रामेति वादिनम् ।
भवान्मामनुनिम्नेन यथा वारीव धावति ॥ ७॥
राम त्वं हृदये येषां सुखं लभ्यं वनेऽपि तैः ।
मण्डं च नवनीतं च क्षीरं सर्पिर्मधूदकम् ॥ ८॥
प्रार्थये त्वां रघूत्तंस मा भून्मम कदाचन ।
सर्वतीर्थेषु सर्वत्र पापेभ्यश्च प्रतिग्रहः ॥ ९॥
सर्वे मदर्थं कुरुतोपकारं श्रीराममाकर्णय कर्ण नित्यम् ।
मूर्धन्नमालोकय नेत्र जिह्वे स्तुहि श्रुतं गर्तसदं युवानम् ॥ १०॥
भवान् रघूत्तंस तु दैवतं मे यं सच्चिदानन्दघनस्वरूपम् ।
एकं परं ब्रह्म वदन्ति नित्यं वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ११॥
भवत्कृपापाङ्गविलोकितेन वैकुण्ठवासः क्रियते जनेन ।
ज्ञात्वा भवन्तं शरणागतोऽस्मि यस्मात्परं नापरमस्ति किञ्चित् ॥ १२॥
दीनान्भवद्भक्तकुलप्रसूतान्भवत्पदाराधनहीनचित्तान् ।
अनाथबन्धो करुणैकसिन्धो पितेव पुत्रान् प्रति नो जुषस्व ॥ १३॥
भवान् भवव्याघ्रभयाभिभूतं जराभिभूतं सह लक्ष्मणेन ।
सदैव मां रक्षतु राघवेशः पश्चात्पुरस्तादधरादुदस्तात् ॥ १४॥
var रक्ष राघवेश – रक्षतु राघवेशः
कामाद्यपथ्येन विवर्धमानं रोगं मदीयं भवनामधेयम् ।
दूरीकुरु त्वं यदहं त्रिलोक्यां भिषक्तमं त्वां भिषजां शृणोमि ॥ १५॥
श्रीरामचन्द्रः स जयत्यजस्रं लङ्कापुरीद्रोणगिरौ पयोधौ ।
यस्य प्रसादादभवद्धनूमानणोरणीयान्महतो महीयान् ॥ १६॥
श्रीराम रामेति रघूत्तमेति नामानि जल्पेद्यदि तस्य तत्क्षणात् ।
दिशो द्रवन्त्येव युयुत्सवः सदा भियं दधाना हृदयेषु शत्रवः ॥ १७॥
अनादिमव्यक्तमनन्तमाद्यं स्वयं परं ज्योतिषमप्रमेयम् ।
विलोकये दाशरथे कदा त्वामादित्यवर्णं तमसः परस्तात् ॥ १८॥
श्रीराघव स्वीयपदारविन्दे सेवां भवान्नः सततं ददातु
वयं स्वजन्मान्तरसञ्चितानि ययाति विश्वा दुरिता तरेम ॥ १९॥
भो चित्त चेत्कामयसे विभूतिं तमेव सम्प्रार्थय वीरमेकम् ।
रघूत्तमं श्रीरमणं सदा यः श्रीणामुदारो धरुणो रयीणाम् ॥ २०॥
वन्देऽरविन्देक्षणमम्बुदाभमाकर्णनेत्रं सुकुमारगात्रम् ।
यं जानकी हर्षयती वनेऽपि प्रियं सखायं परिषस्वजाना ॥ २१॥
सीताजाने नैव जाने त्वदन्यं त्यक्तश्रीस्त्रीपुत्रकामः सदाऽहम् ।
त्वां स्मृत्वाऽन्ते देवयानाधिरूढस्तत्त्वायामि ब्रह्मणा वन्दमानः ॥ २२॥
अहं भरद्वाजमुनिर्निरन्तरं श्रीराममेकं जगदेकनायकम् ।
संवर्णये काव्यरसादिवित्तमं कविं कवीनामुपमश्रवस्तमम् ॥ २३॥
पठन्ति स्तुतिं ये नरा ऋद्धिकामाः
समृद्धिं चिरायुष्यमायुष्यकामाः ।
लभन्ते ह निस्संशयं पुत्रकामाः
लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ २४॥
वेदपादाभिधस्तोत्रं स्नात्वा भक्त्या सकृन्नरः ।
यः पठेद्राघवस्याग्रे जीवाति शरदः शतम् ॥ २५॥
इति श्रीभरद्वाजमहर्षिप्रणीतः श्रीरामचन्द्रवेदपादस्तवः समाप्तः ।