श्रीरामभद्रमङ्गलाशासनम्
श्रीरामभद्रमङ्गलाशासनम्
शरणागतसन्त्राणनिपुणाय महात्मने ।
अयोध्याजनभाग्याय रामभद्रायमङ्गलम् ॥ १॥
कौसल्यानन्दकन्दाय कल्याणगुणसिन्धवे ।
शरण्याय वरेण्याय रामभद्राय मङ्गलम् ॥ २॥
कौशिकाख्यमहायोगिसन्देशसफलीकृतौ ।
कृतिने नतितुष्टाय रामभद्राय मङ्गलम् ॥ ३॥
वैदेहीवदनाम्भोजलोलम्बायितचेतसे ।
भद्राणामपि भद्राय रामभद्राय मङ्गलम् ॥ ४॥
गौतमाश्रमसाफल्यनिदानपदपांसवे ।
दाशकीशादिमित्राय रामभद्राय मङ्गलम् ॥ ५॥
महापातकनिर्मुक्तिहेतुसेतुविधायिने ।
शिक्षितासुरजालाय रामभद्राय मङ्गलम् ॥ ६॥
विभीषणपरित्राणसंहृष्टमनसेऽनिशम् ।
प्राप्तसीताय रामाय रामभद्राय मङ्गलम् ॥ ७॥
प्राप्तराज्याय रामाय भरताभीष्टदायिने ।
सर्वबन्धुसमेताय रामभद्राय मङ्गलम् ॥ ८॥
श्रीनिवासयतीन्द्रोक्तं सीतावल्लभमङ्गलम् ।
ये पठन्ति महात्मानस्तेषां भूयात्तु मङ्गलम् ॥ ९॥
इति श्रीरामभद्रमङ्गलाशासनं सम्पूर्णम् ॥