RamCharitManas (RamCharit.in)

इंटरनेट पर श्रीरामजी का सबसे बड़ा विश्वकोश | RamCharitManas Ramayana in Hindi English | रामचरितमानस रामायण हिंदी अनुवाद अर्थ सहित

श्री राम स्तुति संग्रह

भद्राद्रिरामशतकम् सुब्रह्मण्यशास्त्रिरचितं | BhadradriRama Shatakam by Subrahmanya Shastri

Spread the Glory of Sri SitaRam!

भद्राद्रिरामशतकम् | Bhadradrirama Shatakam

श्रीरामाय नमः।
(कविमणि सुब्रह्मण्यशास्त्रिरचितं)

भद्रं भद्राद्रिवासी दिशतु रघुपतिर्भावितो मानसेन
ध्यातो बुद्ध्या च शीर्ष्णा पदनलिननतः किञ्च वाचा स्तुतश्च ।
यस्याङ्घ्रौ वन्दमानानमरपतिमुखान्वीक्ष्य नन्तुं गतानां
स्मेरास्याब्जेक्षणेन प्रतिदिशति मुदं मानवानां विलम्बः ॥ १॥

वाचः सर्वा निवृत्ता इति सह मनसा बुध्यते वेदवाक्यैः
ब्रह्माद्या अप्यशक्तास्तव महिमगुणप्रस्तुतावित्यवैमि ।
इत्थं भूतेऽपि वस्तुन्यतिमलिनमतिः स्तोतुमिच्छामि यत्त्वां
चापल्यं तत्र हेतुर्भव सहनपरो राम भद्राद्रिनाथ ॥ २॥

धानुष्काग्रेसरत्वं धरणिपतिशतासेव्य पादाम्बुजत्वं
विस्तीर्णैश्वर्यकत्वं विपुलतरयशः श्वेत लोकावलित्वम् ।
भासन्तां ते किमेतैर्मम धरणिसुताराम कश्चिद्गुणो मां
कारुण्याब्धित्वरूपः कलयति विवशं भद्रशैलेश दासम् ॥ ३॥

दृश्या कोदण्डलीला दशमुखशिरसां खण्डनेऽनेककृत्वः
काकस्यैन्द्रेश्च मन्तौ निरवधिकृपाऽलुब्धता राज्यदाने ।
यात्रादाने च वादान्यकं, अनिलसुते भृत्यवात्सल्यमग्र्यं
निर्व्याजः प्रेमभारो मयि च, तव विभो राम भद्राद्रिनाथ ॥ ४॥

यः कृत्वा तोयराशिं निजचुलकगतं प्रार्थितोऽपात्सुरौघैः
यस्याज्ञां पालयन् सन् न भयभृतमना वर्धते विन्ध्यशैलः ।
यद्वाचा सर्पताऽभून्नहुषसुरपतेः सोऽप्यगस्त्यो मुनीन्द्रः
प्रावोचत्पावनं त्वां मम हर दुरितं भद्रशैलेश तस्मात् ॥ ५॥

कारायां द्वादशाब्दान् जननि जनकजे यातनामाप्तवन्तं
निर्माप्यालयं वो मणिगणखचितैर्भूषणैः सार्धमेव ।
भक्तं श्रीरामदासं तव मृदुलगिरा रक्षति स्म प्रियस्ते
भद्राद्रीशप्रिये मां कथमवतु विना त्वद्गिरा राघवः सः ॥ ६॥

कुर्वाणः क्रूरकर्माण्यपि समुपगतस्त्वां तु दैवाद्यदि स्यात्
त्वद्दत्तां प्राप्य शिक्षां प्रथममथ नरः प्राप्नुयादीप्सितानि ।
दुष्टौ दुष्कर्मनिष्ठौ किल विपिनचरौ यत्कबन्धो विराधः
हस्तच्छेदं त्वदाप्तौ स्वपदमथ गतौ भद्रशैलाधिनेतः ॥ ७॥

त्वत्प्राप्तिं भेदशून्यां श्रुतिशिखरगिरो मुक्तिशब्दार्थमाहुः
निःसीमानन्दरूपामहमिह न वृणे तां तु भद्राद्रिनाथ ।
दूर्वाश्यामावभासं स्मितलसितमुखं सानुजं सीतयेतं
बिभ्राणं चापबाणौ नयनपथि दधज्जन्मकोटीर्नये त्वाम् ॥ ८॥

लब्ध्वा पुण्यैरगण्यैरिह मनुजजनिं दुर्लभां भङ्गहीनां
नाधस्ताद्गन्तुमीहे यदपि कुशलता नास्ति चोर्ध्वं प्रयातुम् ।
कुर्वे कर्माणि किन्तु प्रसभमभिपतेत्पूरुषो यैरधस्तात्
ऊर्ध्वं त्वं प्रापयेर्मां तव पदमतुलं देव भद्राद्रिनाथ ॥ ९॥

बाणस्ते पूजितो मे दलयतु षडरीन् बाधमानानजस्रं
चापस्ते नाशयेन्मे सकलमपि महापातकानां समूहम् ।
पादस्ते पादुकाया इव महिततरं स्थानमीशार्पयेन्मे
कायस्ते कामदोग्धा नयनपथगतो भातु भद्राद्रिनाथ ॥ १०॥

लावण्यानां निधानं सुरनरजनता तापनिर्मोक्षहेतुः
कल्पागो मार्गणानां कलिकलुषदृशां स्वर्गमार्गप्रदीपः ।
भद्राद्रौ नेत्रभाजां अमृतरसलसच्छुद्धसिद्धाञ्जनश्रीः
आस्ते सीतादृगीक्षाद्विगुणित विलसत्कालिमा कालमेघः ॥ ११॥

उच्छेत्ता संशयानां श्रुतिशिखरगिरामर्थनिर्णायकत्वे
शा(श)स्त्राभ्यासस्य कालेऽप्यभिगत विनुवद्वृद्धलोकस्य नित्यम् ।
शास्त्राणामर्थजातप्रवचनपटुधीर्जन्मभूमिः कलानां
भद्राद्रौ भाति कश्चिद्भवगहनचर श्रान्तविश्रान्ति वृक्षः ॥ १२॥

सत्वोद्रेकप्रकाशः शरणमभियतां प्राणिनां तामसानां
आर्द्रागस्कारिणां नो हृदयगतमहानुग्रहावेदकोऽयम् ।
चेतःकल्हारचञ्चद्विकसनकरणे चन्द्रिका भूसुतायाः
भद्राद्रीशस्य हार्दं व्यपनयतु तमः सुन्दरो मन्दहासः ॥ १३॥

सीतानेत्रान्तवीक्षाऽसितरुचिशबलश्चौष्ठरागानुविद्धः
केयूर स्वर्णकान्तिव्यतिकर सुभगो राम ते मन्दहासः ।
ऐन्द्रेष्वासस्य शङ्कां वितरति सततं पश्यतां लोचनानां
युक्तं भद्राद्रिनाथ त्वमपि जलधरभ्रान्तिदायी विभासि ॥ १४॥

नेत्राह्लाद प्रवीणो निजतनुमहसा सन्ततं लक्ष्मणेतो
नित्यं सन्मार्गगामी सकलमपि हरंस्तापमत्यन्तशुद्धः ।
आलोकेनैव दूरादपि दृढतमसां छेदने सम्प्रवृत्तो
भद्राद्रौ किन्नु रात्रिञ्चरनिधनपरो भासते रामचन्द्रः ॥ १५॥

चित्रं भद्राचलेन्दो तव किल चरितं वर्ण्यतां कैर्वचोभिः
सीताया विप्रयोगे करुणकरणता प्रस्फुटा ते विलापैः ।
त्यक्त्वा तामेव देवीं पुरजनवचसा गर्भिणीं काननान्ते
धीरोऽभूः पालयन्क्ष्मां मखकरणपरो वत्सराणां सहस्रम् ॥ १६॥

क्वाहं मान्द्यैकभूमिः क्वच रघुतिलको विद्वदीड्याङ्घ्रिपद्मः
स्तोत्रायाथापि तस्य प्रसरति हृदयं वार्यमाणं मयापि ।
मोदेनाथापि नूनं रघुकुलवृषभो भद्रशैलाग्रवासी
स्तम्भारोहप्रयत्नं हसति किल शिशुं वीक्ष्य नन्दन्पिता हि ॥ १७॥

श‍ृण्वन्तो वा पठन्तस्तव चरितवरं हन्त वाल्मीकिबद्धं
भक्ता आनन्दबाष्पाकुलनयन युगाः किञ्च रोमाञ्चवन्तः ।
यत्रासीरंस्ततो मामपि नय भगवन्भद्र भद्राचलेश
प्राप्स्याम्युत्तीर्य मोहाम्बुधिमथ भवतस्तेजसेद्धं पदं तत् ॥ १८॥

ऐश्वर्यं धनलाभमप्यधिकतां स्वेषु प्रशंसावहां
अर्थिभ्योऽर्पणमन्न वस्त्रधन सद्विद्यादिकानामपि ।
ये वाञ्छन्ति त एकदापि मनुजा गोदावरीमज्जनाः
भद्राद्रीश्वरपादपद्मयुगलीनम्रा भवन्तु क्षणम् ॥ १९॥

भो लोकाः श‍ृणुतेदमल्पधिषणेनाप्युक्तमल्पं वचो
वैदुष्यं कवितां धनं निपुणतां यच्चेतरत्कीर्तिकृत् ।
रामः स्वेषु परीक्षते न कुहचिद्भक्तिं परं पश्यति
क्षेमार्थं तदुपेत भद्रधरणीभृन्नाथदृष्टेः पदम् ॥ २०॥

रामो राम इतीव सर्वजनतासङ्घुष्यमाणे विभौ
अज्ञानादिव ते कथां सुरमुनिं पप्रच्छ वल्मीकभूः ।
तेन ज्ञातमिदं तवोत्तमकथा वक्त्राद्गृहीता गुरोः
मुक्त्यै स्यादपि भुक्तये तनुभृतां भद्राद्रिनाथ प्रभो ॥ २१॥

हंसं त्वामवयन्ति शास्त्रनिपुणाः सन्मानसे सञ्चर-
स्येवं चेत्तव पक्षपातमुचितं मन्ये महीपेश्वर ।
तस्य स्थानममुं जनं कलयितुं क्वाक्षेपकर्ताऽस्ति ते
भद्राद्रीश्वर भावयास्य समयं सज्जोऽस्म्यहं सर्वदा ॥ २२॥

यद्ब्रह्माहुरपाणिपादं अमनो निष्कर्णचक्षुर्महत्
तद्द्रष्टुं कथमीश्महे कथमहो नन्तुं समीहामहे ।
इत्यालोच्य विषीदतां तनुमतां क्षेमाय रामात्मना
तद्भद्राचल सीम्नि राजतितरां सर्वान्पुमर्थान् ददत् ॥ २३॥

वाङ्मे निर्गुण मानुषस्तुतिहता चेतो हतं चिन्तया
हस्तोऽयं मम दुर्जनार्पितधनादानेन नित्यं हतः ।
पुष्टं दुष्टपरान्नतश्च जठरं स त्वं प्रसीदेः कथं
निर्व्याजां प्रतिपालये तव कृपां भद्राद्रिनाथ प्रभो ॥ २४॥

माया त्वां जनयत्यजं विदधती नामानि ते सादरं
ब्रह्मा विष्णुरुमापती रघुपतिः कृष्णश्च कल्कीति च ।
मत्त्राणाय नियोजयेद्यदि तदा कुर्याश्च मद्रक्षणं
श्रीभद्राद्रिविभो मदीयदुरितैः सा नैवमाधाद् ध्रुवम् ॥ २५॥

कल्याणं कमलापतेः कलयतात्कम्रोऽवतारः स नो
यः कङ्काय च योगिनामसुलभं स्थानं स्वयं प्राददात् ।
गत्वाऽन्यं पुरुषं धिया मुनिवधूं भ्रष्टां पुनाति स्म यो
यो वा दक्षिणदेशजान्सुखयितुं भद्राचले तिष्ठति ॥ २६॥

कल्पद्रुः कविताजुषां कुलगुरुर्विद्येप्सया श्राम्यतां
भारूपः प्रणतान्तरस्थतमसां भोग्यं परं योगिनाम् ।
कालः कौणपसन्ततेश्च करुणा मूर्ता महागस्विनां
भद्रं दातुमनर्गलं विजयते भद्राचले कोऽपि नः ॥ २७॥

यस्याङ्घ्रेः सकृदर्पणाद्रघुकुलक्ष्मपाल सिंहासनं
प्राप्तं पादुकयाऽपि राक्षसपतिः कीशाधिपश्च स्वयम् ।
आस्तां प्रेमभरेण नुन्नमनसौ सच्चामरग्राहिणौ
यस्यासौ मम सेव्यतामधिगतो भद्राचलस्योपरि ॥ २८॥

चापो यस्य तनोति पातकततेः सेतौ कृताग्रः क्षतिं
बाणो यस्य कपीशभावमददात्पुत्राय भासां निधेः ।
वीक्षा यस्य च पापिनोऽपि भवति स्वर्लोकनिःश्रेणिका
सोऽयं वाङ्मनसातिगामि महिमा जागर्ति भद्राचले ॥ २९॥

यद्वीक्षा शरभङ्गनामकमुनेः वैधात्पदात् ज्यायसी
यत्सेवा युवराजताख्यपदतः श्लाघ्या सुमित्राभुवः ।
यच्चारित्रकथाश्रुतिर्हनुमतो वैकुण्ठवासाधिका
तास्तिस्रोऽपि च भद्रशैल शिखरे लभ्याः स्वतो देहिनाम् ॥ ३०॥

यं वक्षःस्थलमास्थिताऽपि कमला नो तत्वतो जानती
तस्यानुग्रहमीप्सतीव पदयोः सेवां सदा कुर्वती ।
सोऽयं रामवपुः प्रकाशितमहातत्त्वः स्वयं ब्रह्मणा
मूढानुग्रहकाङ्क्षया विलसति श्रीभद्रशैलोपरि ॥ ३१॥

अङ्गाभाजित तोयदाय भजतां भङ्गावहाय द्विषां
गङ्गापावनताप्रदाय महिजासङ्गाधिकानन्दिने ।
पिङ्गाक्षेशसखाय मे नतिशतं रङ्गाधिराजार्चिने
तुङ्गात्युज्ज्वलभद्रशैलविलसच्छृङ्गाग्रभूवासिने ॥ ३२॥

याचे त्वां रघुनाथ किञ्चन न ते दत्तेन तेन क्षतिः
सारथ्यं ददते त्वदर्थमयते भक्तिं सुमन्त्राय ते ।
यद्रूपं समदर्शयः करुणया प्रस्थास्यमानो वनं
तत्तेजोमयमीक्षितुं मम मनो भद्राचलेशेच्छति ॥ ३३॥

कारुण्यामृतवर्षुको जनकजाविद्युल्लतासङ्गवान्
सन्तापं शमयन् स्वमाश्रितवतां श्यामाभिरामाकृतिः ।
नित्यं सत्पथमाश्रितो जनतया सम्प्रार्थ्यसन्दर्शनः
भद्रोर्वीधरमाश्रितो विजयते रामाभिधानो घनः ॥ ३४॥

चेतो मे विषयेषु सञ्चरति न प्रह्वोऽस्मि ते पादयोः
सद्भिः साधु समागमो न कुहचित् श्रद्धा च नो कर्मणि ।
संसाराम्बुनिधिं तरीतुमनसः किं वाऽस्ति मे साधनं
भद्राद्रीश्वर ते विनाऽद्य शबरीमोक्षप्रदातः कृपाम् ॥ ३५॥

श्रेयः पक्ष्मलयन्ति सूक्तिषु सुधां सिञ्चन्ति राज्ञां सभा-
स्वातन्वन्ति जयं समं बुधगणैर्विद्याविवादेष्वपि ।
आकिञ्चन्यमपानुदन्ति हृदयं कुर्वन्त्यहो निर्मलं
भद्राद्रीश्वर रामभद्र करुणाफुल्लत्कटाक्षाङ्कुराः ॥ ३६॥

चाञ्चल्यं परिहर्तुमब्धिपयसो नाथेशिषे स्वेच्छया
चेतो मे चपलं विधातुमचलं शक्ते न किं त्वत्पदे ।
ईशस्त्वं वरभद्रशैलनिलय स्थाणोर्धनुर्भञ्जने
मत्कर्माङ्कुरमीश्वरो दलयितुं किं नेति विज्ञापये ॥ ३७॥

सेव्यस्त्वं श्रुतिशीर्षवार्धितलगैर्नित्यं मुनीनां गणैः
मूढेषु प्रथमासनं प्रथयता सेव्यो मयाऽपि स्वयम् ।
नानानन्दमयं स्वधाम नयसे मामप्यसन्देहतो
युक्तं किं नु बुधाबुधौ समतया भद्राद्रिनाथेक्षसे ॥ ३८॥

कीर्त्यर्थं न तु भक्तितो रघुपते गुम्भन्ति ये त्वत्कथां
वाचा माक्षिकधुर्यया तव कृपापात्रत्वमायान्ति ते ।
जिह्वाचापलतो रसायनवरं ये भुञ्जते तेऽपि किं
नारोग्यं महदाप्नुवन्ति भुवने भद्राचलेश प्रभो ॥ ३९॥

त्वद्बाणेन निमज्जितो जलनिधौ मारीचनामाऽशरः
पश्यन् राममयं जगन्मुनिततीर्भीतेर्भरादत्यगात् ।
पापोऽमूं गतिमानशे यदि तवाधायापराधं परं
किं वाच्यं वरभद्रशैलनिलय त्वत्पादपद्मार्चिषु ॥ ४०॥

राम त्वत्पदपद्मयोर्नखरुचिर्हार्दं तमो मे हरेत्
उद्भूता चरणाम्बुजात्तव पुरा स्रोतस्विनी द्योसदाम् ।
सोढ्वा ते जलधिप्रयुक्त शरसंसक्ताग्नितापं परं
पत्यर्थं शरणागतेव लसति श्रीभद्रशैलेश या ॥ ४१॥

कृत्वाऽऽगांसि बहून्यपि प्रतिदिनं त्वत्तो भयं नाप्नुयां
कृत्वाऽऽगो वधदण्डनं स बलिभुक् किं न त्वया रक्षितः ।
त्वां यातः शरणं तथाऽहमपि किं त्वां रक्षकं नाप्तवान्
भद्राद्रीश्वर वर्ष मय्यपि कृपापूर्णान् कटाक्षाङ्कुरान् ॥ ४२॥

कुर्वन्कर्म मदर्थमेष्यति ततः सिद्धिं भवानित्यमुं
पार्थायार्थमुपादिशो न खलु तद्वाक्यं मृषाऽवोचथाः ।
धुत्वा रावणमाहरन्तमवनीपुत्रीं रथात्पातयन्
पक्षच्छेदमवाप्य भद्रगिरिराट् ! गृध्रः पदं तेऽगमत् ॥ ४३॥

माहात्म्यं तव वेदितुं रघुपते नालं विरिञ्चादयो
वाल्मीकिस्तदवेत्तवैव कृपया लेशस्य लेशात्मना ।
सत्येवं तव वैभवं भुवि कविः को वर्णयेत्कृत्स्नशः
त्वद्दत्तां कवितां तवैव पदयोर्भद्राचलेशार्पये ॥ ४४॥

वीक्षा ते रघुनाथ हन्त शबरीमोक्षाय सङ्कल्पते
वीर्यं शङ्करचापभञ्जनकृते प्रौढिं समालम्बते ।
क्रोधो राक्षसराट्शिरोदशशतीं भूमौ क्षिपत्यञ्जसा
श्रीभद्राचलनाथ ते स्तुतिविधौ के वा वराका वयम् ॥ ४५॥

किं ते मे वरिवस्यया विहितया नूनं न मामीक्षसे
रक्षोवानरनायकावभवतां ते चामरग्राहिणौ ।
दासस्ते नयने गिरेरपि महादक्षो हनूमानभूत्
सर्वोर्वीपतितां स्वयं च वहसे भद्राद्रिनाथ प्रभो ॥ ४६॥

भद्राद्रीश तवेडितानि चरितान्यत्यद्भुतानि प्रभो
पाषाणप्लवनं तृणस्य च तथा ब्रह्मास्त्रतापादनम् ।
स्त्रीत्वप्रापणमश्मनश्च धनुषः शम्भोस्तथा भञ्जनं
दृश्यन्ते क्व नु नाम कङ्कशबरीमोक्षप्रदानं तथा ॥ ४७॥

कोपस्ते विशदः पयोधिपयसां क्वाथक्रियादानतः
शक्तिस्ते परमेशबाहुविधृतेष्वासद्विधाभञ्जनात् ।
प्रीतिस्ते च रजस्तमोतिगपदादेशात्तिरश्चस्तथा
वात्सल्यं मम भद्रभूधरपते निर्हेतुकं रक्षणात् ॥ ४८॥

गाधाभिः स्वकपोलकल्पित पदोन्निष्यन्दि माध्वीरसा-
स्वादानन्दित सज्जनाभिरनिशं गायन्ति हि त्वां बुधाः ।
जीवन्मुक्ततया स्थिता अपि च ते यद्येवमर्हत्तमाः
जोषं भावमवाप्नुयां कथमहं भद्राद्रिनाथ प्रभो ॥ ४९॥

कल्याणं कलयस्व मे कलिमलं संसक्तमुन्मूलय
भ्रान्तिं वारय भोगजालजसुखे कामादिकान्संहर ।
चित्तं निर्मलय प्रमोहभरितं स्वात्मानमादर्शय
क्लान्तं मां भवदावतः शिशिरय श्रीभद्रशैलेश्वर ॥ ५०॥

चन्द्रोऽभून्मनसस्तवेति वचनं वक्ति श्रुतिः सोऽप्यसौ
आह्लादं वितनोति शीतलरुचिः सन्मार्गगामी सदा ।
कार्यं कारणतो गुणान् लभत इत्याहुर्मनस्ते तथा
भद्राद्रीश्वर तान्गुणांस्तव समान् सङ्क्रामयास्मास्वपि ॥ ५१॥

दुष्टस्यापि विनिन्दतोऽपि दयसे त्वं वालिनः स्म स्फुटं
भार्याहर्तरि रावणे युधि जिते न घ्नन्गृहं प्रैषयः ।
सीतावक्षसि दारणं कृतवतः काकस्य रक्षामधाः
भद्राद्रीश्वर मां परं दुरितिनं त्वं शिक्षसे प्रत्यहम् ॥ ५२॥

वन्दित्वा तव पादपद्मयुगलं वन्देय नान्यं क्वचित्
प्रार्थ्य त्वं स्वमभीप्सितं न च परं तत्प्रार्थयेयं पुनः ।
एवं चेत्क्रियते यशोऽकलुषितं स्यात्ते ममैतत्प्रियं
भावं तं मम पालयस्व दयया भद्राचलाधीश्वर ॥ ५३॥

गङ्गाया अपि चोत्तरे जनपदे जन्माप्तवान् स्वेच्छया
पातुं दक्षिणदेशजानपि जनान् सन्दर्शनानुग्रहैः ।
नुन्नस्त्वं दययाऽतिपुण्यतटिनी गोदावरीरोधसि
प्राप्तो भद्रगिरिं रघूत्तम विभो रक्षञ्जनान् मादृशान् ॥ ५४॥

कल्पद्रुर्मधुपाश्रितस्तृणमुखी सा कामधेनुः श्रुता
चिन्तामण्यभिधो मणिश्च कठिनः किञ्च स्थितास्ते दिवि ।
सत्सेव्यो विजयी रणे सदयहृद्भद्राचले भूतले
निर्दोषो रघुनन्दनो विजयते देवो वदान्योत्तमः ॥ ५५॥

कयाऽद्य विधया ब्रुवे कलियुगस्य दोषं जनाः
क्षिपन्ति बहु वत्सरान् क्षणमिवारसैर्भाषणैः ।
अरुन्तुदनरस्तुतीर्विदधते सदा पण्डिताः
स्मरन्ति न कदाचन स्वपनतोऽपि भद्राचलम् ॥ ५६॥

विचित्रतरवेदिकं विमलहेमतः कल्पितं
विमानवरमग्रतोऽस्य च सुदर्शनं काञ्चनम् ।
प्रदक्षिणपथं बुधैः पठितदिव्यरामायणं
प्रपश्यत वरालये रघुवरस्य भद्राचले ॥ ५७॥

करीन्द्रकरबाहवे करधृताशुगासेषवे
प्रशस्तगुण सिन्धवे प्रणतजन्मिनां बन्धवे ।
कलीरिततमोमुषे कलितपुण्यहृज्जग्मुषे
नमांसि च समर्पये नगरितोरुभद्राद्रये ॥ ५८॥

मुनीन्द्रवरमोहने मुषितचक्षुषीक्षावतां
विदेहतनयादृशोर्विरचितामृताग्र्याञ्जने ।
स्वसुर्निशिचरप्रभोः स्मरशरार्तिसन्दायके
शरीरमहसि प्रभोर्विशति हृत्तु भद्राचले ॥ ५९॥

चराचरविधायिनीं चरणनम्रधीदायिनीं
कविस्तुतिरसादिनीं करुणयाऽऽर्तसंरक्षिणीम् ।
दिलीपकुलनन्दिनीं दिविषदार्तिसंहारिणीं
भजामि परदेवतां भवनितोरुभद्राचलाम् ॥ ६०॥

अतीतभवसञ्चितैरगणितैश्च पुण्यव्रजैः
अवाप्य रघुनायकेऽभ्यधिकभक्तिमद्वैतिनीम् ।
तया जिगमिषेत्पदं सुखमयं जनश्चेत्तदा
प्रयातु बुधसङ्कुलं प्रभुसनाथभद्राचलम् ॥ ६१॥

कलिः कलयते बलात्कलुषचित्तसंवासनं
प्रभो षडरयो मनः प्राचयन्ति वासोगृहम् ।
बिभेमि च यमादहं बत तवापि दासो भवन्
अतोऽत्र तव दृष्टये वसतिमेमि भद्राचले ॥ ६२॥

यस्यैवाख्या मरणसमये मुक्तये देहभाजां
वाराणस्यां मदनरिपुणा प्रोच्यते कर्णमूले ।
यस्यैवाज्ञा जलनिधिजलस्तम्भनप्रौढिरासीत्
सोऽयं भद्राचलशिखरगः शोषयेच्छोकमोहौ ॥ ६३॥

आशापाशाभिहतमनसामामयैः पीडितानां
ज्ञातुं शक्त्या विरहितधियां ब्रह्म वेदान्तवेद्यम् ।
प्राप्तुं यावत्तनु सुखमलं काङ्क्षतां मुक्तिमन्ते
का वाऽस्त्यन्या गतिरिह विना भद्रशैलाधिनाथम् ॥ ६४॥

जन्म प्राप्तं धनपतिगृहे लोकमान्ये ततः किं
विद्या लब्धा विनयमहिता विश्वहृद्या ततः किम् ।
वीर्योद्रेको भवति विजयप्राप्तिहेतुस्ततः किं
सौख्यं लभ्यं त्विह च परतो भद्रशैलाधिनेतुः ॥ ६५॥

मृत्योर्मृत्युं सततमयतां जातितो ज्ञानतो वा-
ऽजानानां निजमवरतादोषमप्युत्सुकानाम् ।
प्राप्तुं लोकानथ च पुनरावृत्तिशून्यान्सुखार्थं
भद्रोर्वीध्रे लसति शबरीमोक्षदः कोऽपि देवः ॥ ६६॥

सद्वाऽसद्वा कवयति कविः किञ्चिदाधाय चित्ते
क्षुद्रैरर्थैः सफलयति तां वाचमल्पैरबुद्धिः ।
वाल्मीकिस्ते चरितमभिधायैव वैधेषु लोके-
ष्वद्याप्यास्ते सुखमनुभवन् राम भद्राद्रिनाथ ॥ ६७॥

यस्या लाभाज्जनकनृपतेर्वृद्धिरासीदनल्पा
यस्याः क्रोधो न भवति महामन्तुकृद्राक्षसीषु ।
सैवानन्या यदि जनकजारूपिणी पद्मगेहा
किं त्वां न स्यात्सुखमुपयतां तं च भद्राद्रिनाथ ॥ ६८॥

नष्टं किं ते भवति नयनानन्दिमूर्ते वदादौ
मग्नोन्मग्नं भवजलनिधौ भावनाशून्यबुद्धिम् ।
कामक्रोधाद्यभिधमकरैस्तुद्यमानं समन्तात्
मां मा भैषीरिति वदसि चेद्भद्रशैलेश वाचा ॥ ६९॥

देहो भास्वांस्तव सितरुची राम ते मन्दहासः
लोकार्तीनां शमकर विभो लोहितो लोचनान्तः ।
भावः सौम्यो गुरुरपि कृपा विद्वदर्च्यः कविस्त्वं
मन्दो रोषः शिरसि च तमो भासि भद्राद्रिकेतुः ॥ ७०॥

सारं वेदागमगतगिरां सारसासूयि नेत्रं
भारं पादप्रणतजनताभूतिरूपं वहन्तम् ।
पारं दूरं भवजलनिधेः प्रापयन्तं प्रपन्नान्
वारं वारं विरचितनतिर्नौमि भद्राचलेशम् ॥ ७१॥

गोदावर्याः सलिलशिशिरैः सेव्यमानं समीरैः
गोदानानामयुतजफलं सेविनां सन्दिशन्तम् ।
गोपायन्तं चरणपतितान् नारकाद् घोररूपात्
गोपत्युद्यत्सुकुलतिलकं नौमि भद्राचलेशम् ॥ ७२॥

कर्माराध्यं सकलजगतां साधकं काङ्क्षितानां
काव्यारम्भे कविपरिषदा स्वीकृतं नायकत्वे ।
उच्छेत्तारं सकलविपदामुन्मुखं श्रीप्रदाने
भद्राद्रीश श्रयतु कतमं त्वां विनाऽयं विवेकी ॥ ७३॥

प्रेमावेशस्त्वयि समभवद्धन्त वाल्मीकिवाक्यैः
नो शक्योऽयं व्यपगमयितुं वाङ्मुखैर्नास्तिकानाम् ।
दुःखं वा स्यात्सुखमपि च वा तेन सर्वं सहोऽहं
भद्राद्रीश त्वयि सुखमियां राम विन्यस्य भारम् ॥ ७४॥

भद्राद्रीश प्रभुवर न ते रक्षकः शिक्षको वा
पापिष्ठं मामपि यदि करोष्यात्मदासं क्षतिः का ।
भ्रातृद्रोहिद्वयमपि कृतं राज्यदानैकपात्रं
दुष्प्रापं यत्त्रिदशभुवनं तत्कबन्धेन जग्मे ॥ ७५॥

मरकतमणिश्यामा कामार्पणोद्यतमानसा
सततकरुणासार श्रीमत्कटाक्ष चमत्कृता ।
सुकृतिजनतासेव्या स्तव्या सुधामयवाग्झरी-
वितरणचणा भद्राद्रिस्था विभाति हि देवता ॥ ७६॥

अरुणचरणैराताम्राक्षैरपुण्यसुदुर्लभैः
विनतभरणैर्विश्वातीतैः वियत्समवैभवैः ।
दशरथतपःपुञैः दीनावनैकधुरन्धरैः
भरतविनतैर्भद्राद्रिस्थैः भजे परतन्त्रताम् ॥ ७७॥

मलिनमलिनं मन्दप्रज्ञं मदीयमनोऽधुना
विमलविमलां बुद्धिं प्राप्तैर्विमृश्य विमृश्य च ।
श्रुतिशिखरगं त्वत्कं तत्त्वं चिरेण च गृह्यते
कथमहमियां भद्राद्रीश त्वदीयकृपारसम् ॥ ७८॥

श्रुतिशिरसि मे नास्ति प्रज्ञा श्रये न सतः क्वचित्
विहितचरणं त्यक्त्वा नित्यं निषिद्धमुपाश्रये ।
तदपि धिषणा मुक्तेः प्राप्तावतीव समुत्सुका
सति मनसि मे भद्राद्रीशे किमस्ति हि दुर्लभम् ॥ ७९॥

नगरमटवीं कर्तुं नेतः पुरं च महावनं
तव वनगतौ पौरो लोकस्तदा यतते स्म हि ।
तदभिलषितं तैर्नो लब्धं तवैव हि वञ्चनात्
इति किल कृपानुन्नो भद्राचलं नगरं व्यधाः ॥ ८०॥

परिहरतु मे पाणिद्वन्द्वे शरासशराङ्किता
परमपुरुषाभिख्या पापं पुरातनदेवता ।
मुनिविततयो नायोध्यायां न वा परमे पदे
विहितरतयो भद्राद्रौ यामुशन्ति निषेवितुम् ॥ ८१॥

कमलनयने कारुण्याब्धौ कपालिकृतादरे
विधिनुतपदे विश्वातीते विपत्तितमोरवौ ।
भवभयमहाभाराक्रान्ताशयस्य भृशाधिनो
भवतु हृदयं भद्राद्रीशे ममानिशमर्पितम् ॥ ८२॥

कलितभुवनैः कालावश्यैः करात्तशरासनैः
कविकुलगिरां भाग्यैर्भोग्यैः कदाप्यकृतैनसाम् ।
जनकतनयानेत्रानन्दैर्जगत्त्रयपावनैः
भवहरपदैर्भद्राद्रिस्थैर्भवानि सुरक्षितः ॥ ८३॥

अयोध्यां गत्वा त्वामवनितनयावल्लभ विभो
न सन्द्रष्टुं शक्ता इति किल वयं मानसतले ।
मतिं गोदावर्यां महितसरयूरित्यविकलां
प्रयामो भद्राद्रिं गृहमिति च साकेतनिलयम् ॥ ८४॥

कृतघ्नत्वादीनां स्वकृतदुरितानां फलतया
भवेऽस्मिन्दारिद्र्यं भरतनुतपादानुभवताम् ।
इदानीं त्वत्पादानतिपरधियां जन्ममरणे
विनिघ्नन् भद्राद्रौ वससि ददसे चाधिकधनम् ॥ ८५॥

कवीन्द्राणां वाचं मुकुलयति ते दानमहिमा
गृहीत्वा षड्लक्षीमितकनकनिष्काणि रजनौ ।
वितीर्य स्वं दासं यवननृपतेर्मोचितवतः
कृपासिन्धो भद्राचलकृतगृहप्रेमनिलय ॥ ८६॥

धुनानं भक्तानां दुरितनिकुरुम्बं शुभदृशा
क्रियाणां कर्तॄणां फलमुचितरूपं च ददतम् ।
कलानामास्थानं कलितसुकृतानां च सुलभं
भयं त्यक्त्वा चित्तं भजति मम भद्राचलपतिम् ॥ ८७॥

स्फुरन्त्यां शम्पायां सजलजलदं त्वां किल विदुः
लतायां सौवर्ण्यां मरकतमणिं प्राहुरपरे ।
वदन्त्यन्ये सन्तः कनककमलस्थं पृथुमलिं
महीजाश्लिष्टं त्वां मनुकुलज भद्राचलपते ॥ ८८॥

यदीयानां नाम्नां शतमधिकमष्टाभिरतुलं
महेशः शर्वाण्यै श्रुतिनिचयसारं किल पुरा ।
उपादिक्षद्यस्याप्युपनिषदि गूढं च चरितं
स भाति श्रीभद्राचलशिखरदीपो रघुपतिः ॥ ८९॥

शयानं शय्यायां तरुदलकृतायां रघुपते
विलोक्य त्वां विद्वानपि कुशिकजो ब्रह्मकृतधीः ।
प्रसूता कौसल्या सुतवरमिह प्राह मुनिराट्
नमस्तस्मै भद्राचलनिलय ते देहमहसे ॥ ९०॥

प्रसादस्ते प्राप्तुं न सुकर इति प्राहुरधियः
सुखं प्राप्तो यस्मादरिसहभुवाऽपि द्रुतमयम् ।
अहं तु त्वत्पादैकशरणमितोऽपि स्वदुरितैः
अलब्ध्वा तं सीदाम्यतिकरुण भद्राद्रिनिलय ॥ ९१॥

जटालस्त्वं पादे तव निपतितोऽभून्मकुटभृत्
वनेऽवात्सीर्नित्यं तव परिजनः सौधनिलयः ।
प्रियाहीनस्त्वं ते रमयति वधूः कोऽपि कृपया-
ऽप्यसक्तस्त्वं भोगान्दिशसि नमतां भद्रगिरिराट् ॥ ९२॥

तपोभिर्योगैर्वा तरणिकुलकेतो कतिचन
प्रसाद्य त्वच्चित्तं विधिभुवनमीप्सन्ति विबुधाः ।
अहं तु त्वद्वक्त्राम्बुजसततवीक्षासुखकृते
वसेयं भद्राद्रौ सतनुरतनुर्वा कुरु तथा ॥ ९३॥

विधीन्द्राद्यर्च्येभ्यो विविधसुखदेभ्यः प्रणमतां
पुनानेभ्यः पत्नीं पदनयनविप्रस्य पतिताम् ।
ददद्भ्यो दारुभ्यां धरणिपदसिंहासनपदं
नमः स्ताद्भद्राद्रीश्वरपदरजोभ्यः प्रतिदिनम् ॥ ९४॥

कदा वा भद्राद्रौ तदुदितवने वाऽस्य च तटे
नरत्वं कीटत्वं मृगविहगतां वा समुपयन् ।
रघूणामीशानं परिचरितुमारादभियतां
पदोद्भूतान् पांसून् शिरसि कलयन्निर्वृतिमियाम् ॥ ९५॥

कदा वा भद्रोर्वीधरनिकटदेशे पुरवरे
प्रतोलीषु भ्राम्यत्सकलजन साधारणतया ।
स्थितं सीतारामेत्यनिशमपि शब्दं निशमयन्
कृतार्थत्वं सृष्टेः श्रवणयुगलस्यापि तनुयाम् ॥ ९६॥

कदा वा भद्राद्रौ करणनिवहं साधु यमयन्
सुषुम्नानाडीतः स्रवदमृतधाराप्लुततले ।
हृदम्भोजे रामं शरशरधिबाणासनधरं
न जानीयां ध्यायन् गतमपि सहस्रं च शरदाम् ॥ ९७॥

कदा ब्रह्मक्षत्रं रघुवर तवान्नं श्रुतमतः
कृपां कुर्यां भोज्ये कथमिति मतिं साधु विजहत् ।
अगस्त्यं मत्वा मामपि शरभङ्गं वाप्यव विभो
वसेयं भद्राद्राविति किल वदन् राममनिशम् ॥ ९८॥

कदा गोदावर्या अतिशयितशैत्यात्सुखकरे
निमज्ज्यौघे कृत्वा नियममथ भद्राद्रिनिलयः ।
हृदि ध्यायन्मूर्तिं जलदजयिनीं कामपि परां
पिपासाक्षुद्बाधामहमनधियन् निर्वृतिमियाम् ॥ ९९॥

कदा वा वेदानां हृदयमिति ब्रह्माक्षरमिति
स्मरारातेरग्रे दशरथमहीपालगदितम् ।
चिरं चित्ते कुर्वन् रघुकुलसरिन्नायकमणिं
वसेयं भद्राद्रावनवरतमानन्दभरितः ॥ १००॥

कदा भद्राद्रौ सद्गणमुखरितां राघवकथां
रघूत्तंसावासं परित ऋषिभिश्चादृततराम् ।
द्रुतस्वान्तः श‍ृण्वन् विषयसुखमाधूय सकलं
विशेयं कौसल्यासुचरितफले तन्मयतया ॥ १०१॥

कदा गर्भागारे कनकमयभित्त्या विलसिते
वसन्तं भद्राद्रौ जनकतनयालक्ष्मणयुतम् ।
स्फुरत्तेजः पुञ्जान्तरितमिव बिम्बं दिनरुचेः
अनक्षिस्पन्दोऽहं चिरमनुभवेयं सुखपरः ॥ १०२॥

कदा भद्राद्रीशोपरिमणिविमानाग्रनिलयं
स्फुरच्चक्रं तेजोमयकनकक्लृप्तं स्फुटरुचि ।
प्रपश्यन् सन्ध्यायां दिनकरकराक्रान्तिसुभगं
महानेत्रानन्दं चिरमनुभवेयं परवशः ॥ १०३॥

कदा मे मोहाब्धावनिशमपि मग्नस्य सुदृढं
तदीयैः कामाद्याह्वयमुपगतैर्भङ्गनिचयैः ।
चलत्वं नीतस्य प्रसृमरभियो दुःखमधिकं
हरेद्भद्राद्रीशो घटभवमुनीन्द्रस्तुतपदः ॥ १०४॥

सव्ये पाणौ शरासं दधदभयकरे सायकं चापसव्ये
मेघश्यामं किरीटाङ्गदकटकमुखैर्भूषणैर्भूषिताङ्गम् ।
सीतासौमित्रिसेव्यं स्मितलसितमुखं पादमूलाञ्जनेयं
कारुण्यस्यन्द्यपाङ्गं किमपि हृदि महो भातु भद्राद्रिवासम् ॥ १०५॥

वेदाश्चेदब्धिघोषा मनुमुखयमिनां सूक्तयो लीलयोक्ताः
आचार्या भ्रान्तिहेतु प्रलपनमुखराः शङ्कराद्या महान्तः ।
कर्मानुष्ठानमार्यैः कृतमखिलमिदं डम्भमात्रं यदि स्यात्
स्वामिन् भद्राचलेश स्तुतिरियमफला त्वां प्रति स्यात्तदानीम् ॥ १०६॥

 

इति श्रीचोलदेशभूषणायमान श्रीकुम्भघोणक्षेत्रपरिसरवर्ति वलङ्गैमान् ग्रामाभिजनस्य पण्डितमण्डलीपरिष्टूयमानवैदुष्यश्री कृष्णसूरितनूजन्मनः, लक्ष्म्यम्बागर्भशुक्तिमुक्ताफलस्य, विष्णुपुराभिजनानां शास्त्ररत्नाकरबिरुदभाजां पण्डितमूर्धन्यतामुपगतानां न्यायवेदान्त शास्त्रपारदृश्वनां श्री स्वामिशास्त्रिणां करुणाकटाक्ष समासादितविद्यावैशद्यस्य कविमणिबिरुदाङ्कितस्य सुब्रह्मण्यशास्त्रिणः कृतिषु भद्राद्रिरामशतकं समाप्तिमगमत् ।


Spread the Glory of Sri SitaRam!

Shiv

शिव RamCharit.in के प्रमुख आर्किटेक्ट हैं एवं सनातन धर्म एवं संस्कृत के सभी ग्रंथों को इंटरनेट पर निःशुल्क और मूल आध्यात्मिक भाव के साथ कई भाषाओं में उपलब्ध कराने हेतु पिछले 8 वर्षों से कार्यरत हैं। शिव टेक्नोलॉजी पृष्ठभूमि के हैं एवं सनातन धर्म हेतु तकनीकि के लाभकारी उपयोग पर कार्यरत हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *

सत्य सनातन फाउंडेशन (रजि.) भारत सरकार से स्वीकृत संस्था है। हिन्दू धर्म के वैश्विक संवर्धन-संरक्षण व निःशुल्क सेवाकार्यों हेतु आपके आर्थिक सहयोग की अति आवश्यकता है! हम धर्मग्रंथों को अनुवाद के साथ इंटरनेट पर उपलब्ध कराने हेतु अग्रसर हैं। कृपया हमें जानें और सहयोग करें!

X
error: