श्री भद्राद्रीराम शरणागतिः | Shri Bhadradri Rama Sharanagati
श्री भद्राद्रीराम शरणागतिः | Shri Bhadradri Rama Sharanagati
श्रीमत्पयोरुहसुधाकलशातपत्र
मत्स्यध्वजाङ्कुशधरादिमहार्षचिह्नौ ।
पद्मप्रवालमणिविद्रुममञ्जुशोभौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १॥
वामाङ्कहस्तधृतभूमिसुतारथाङ्ग
सङ्खाशुगप्रणयिसव्यकराऽब्जनेत्र ।
पार्श्वस्थचापधरलक्ष्मण तावकीनौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ २॥
फुल्लारविन्दरुचिरा वनिशं लसन्तौ
संवर्तिकालिसमताललिताङ्गुलीकौ ।
तत्सूतमौक्तिकफलायितसन्निभौ ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ३॥
भक्त्यर्पितस्फुरदुदारसरोरुहाली
सम्यग्विलग्नमकरन्दलवाभिशङ्काम् ।
पादाङ्गुलीनखमिषात् परिकल्पयन्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ४॥
मुक्तावली लसति विष्णुपदे तवेति
वेदः प्रबोधयति तां नखरालिरक्ष्यात् ।
प्रत्यक्षतः प्रकटनेन ततोऽदिकौ ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ५॥
नीहारबिन्दुदलशोभितनालपद्मे
भास्वन्नखाङ्गुलिसुजङ्घतया विजित्य ।
विध्यर्चितै रिव सुमैर्विहिताट्टहासौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ६॥
पूर्णः कलङ्करहितो विधु राननात्म
सूर्यप्रभाऽभिभवमुक्तमति प्रसन्नाम् ।
तारावली मिव नखावलि मावहस्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ७॥
श्रुत्यङ्गनाकचभरान्तरराजमान
सिन्दूररेणुमिलना दिव भक्ताहृत्सु ।
वासातिरेकवशतः किल जातरागौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ८॥
कोटीरकोटिघटना दिव देवतानां
कोपादिवाम्बुरुहविद्रुमपल्लवेषु ।
भक्तालिवैरिकलना दतिमात्ररक्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ९॥
भेदोऽस्ति नैव खलु दारुशिलादिकानां
आलोच्य चैव मखिलाकरचूर्णभाजौ ।
संक्षालितौ सुमनसा तरिजीविना ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १०॥
ध्यानैकनिघ्नमुनिमानसवासकाले
सक्तानुरागयुतसत्यगुणैकशङ्काम् ।
भक्तावलेर्नखरुचा परिकल्पयन्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ ११॥
उन्मार्गकर्षिमुनिमानसवारणानां
शब्दादिभोगमदवारिमलीमसानाम् ।
आलानपाददृढताकरकीलगुल्फौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १२॥
मायामृगार्थ मवनीतनयानियोगात्
आयासपूर्व मटवीतटदूरचारात् ।
आरक्तकोकनदकोमलकान्तिभाजौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १३॥
भूमीसुताकरतलोदरराजमान
काश्मीरकान्तिमिलना दिव रागवन्तौ ।
भक्तौघरक्षणकलातिविचक्षणौ ते
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १४॥
पाथोधिजन्मपरिकल्पितपाद्यधारौ
फालाक्षमूर्धधऽतपावनतीर्थहेतू ।
पाषाण मेणनयनाविभवं नयन्तौ
भद्राद्रिरामचरणौ शरणं प्रपद्ये ॥ १५॥
श्री वेङ्कटार्यपदपङ्कजसेवकेन
श्री श्रीनिवास चरमावधिकिङ्क रेण ।
प्रोक्ता प्रपत्तिविनुतिं पठतां जनानां
भद्राद्रिराड्दिशतु भद्र मनिद्रमेव ॥ १६॥
इति श्री भद्राद्रीराम शरणागतिः समाप्ता ।