श्री चिरञ्जीवि रामायणम् | Shri Chiranjivi Ramayanam
श्रीचिरञ्जीविरामायणम् | Shri Chiranjivi Ramayanam
पायात् क्षीराब्धिशायी कमलभवनुतः कोसलेन्द्रस्य पुत्रो
रामः सौमित्रियुक्तः कुशिकसुतगिरा ताटकाप्राणहारी ।
यज्ञं निर्वर्त्य गङ्गासुचरितमुदितः पावयंस्तामहल्यां
सीतामुद्वाह्य जित्वा पथि भृगुतनयं प्राप्य हर्षादयोध्याम् ॥ १॥
श्रीरामं नौमि कैकेय्यभिलषितवरात् खिन्नमालोक्य तातं
तद्वाचा त्यक्तराज्यं झटिति वनगतं मैथिलीलक्ष्मणाभ्याम् ।
स्वर्गस्थे राज्ञि शोकात् कृतनुतिभरतप्रार्थनात् पादुके स्वे
दत्त्वास्मै तन्निवृत्त्या स्थितमनुजयुतं सेवितं चित्रकूटे ॥ २॥
हत्वारण्ये विराधं मुनिनिकरमुदे पञ्चवट्यामुषित्वा
वैरूप्यात् शूर्पणख्या(ः)निशित (कुपित)खरमुखान् ध्वंसयित्वार्धयामम् ।
मारीचं मर्दयित्वा दशवदनहृतां तत्र सीतामदृष्ट्वा
दग्ध्वा क्रुद्धं कबन्धं शबरिवनितया पूजितं राममीडे ॥ ३॥
पम्पातीरे हनूमत्पटुतरवचनादृश्यमूकं च गत्वा
कृत्वा सुग्रीवसख्यं निशितशरवरैः सप्तसालांश्च भित्त्वा ।
हत्वा सुत्रामपुत्रं दिनकरजनुषस्तस्य राज्यं च दत्त्वा
तेनानीतैः कपीशैर्विदित(विचित)सकलभूमण्डलं राममीडे ॥ ४॥
सेतुं बद्ध्वा समुद्रे सकलबलयुतं रावणं कुम्भकर्णं
हत्वा तत्पुत्रवर्गं तदनुजमभिषिच्याथ लङ्काधिनाथम् ।
सीतां लब्ध्वाग्निशुद्धां सकलसुरनुतं पुष्पयानाधिरूढं
सुग्रीवाद्यैरुपेतं रघुपतिमनिशं प्राप्तराज्यं नमामि ॥ ५॥
सकृदपि यदि रामेत्युच्चरन् यस्तु मर्त्यः
सकलदुरितसङ्घैः संयुतो वापि नूनम् ।
न निवसति स मातुर्गर्भवासी कदाचि-
न्निवसति हरिलोके नास्ति सन्देहलेशः ॥ ६॥
इति श्रीचिरञ्जीविरामायणं सम्पूर्णम् ।