श्रीजानकीस्तवराज हिंदी अर्थ सहित | Shri Janaki Stavaraja with Hindi Meaning
श्रीजानकीस्तवराज हिंदी अर्थ सहित
Shri Janaki Stavaraja with Hindi Meaning
श्रीगणेशाय नमः ॥
अथ मङ्गलाचरणम् ।
ॐ वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ १॥
ॐ सर्वरूपमयीदेवी सर्वं देवीमयं जगत् ।
अतोऽहं विश्वरूपं तां नमामि परमेश्वरीम् ॥ २॥
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं
नितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ३॥
अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् ।
समस्तसाक्षिं तमसः परस्तान्नारायणं विष्णुमहं भजामि ॥ ४॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्तेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ ५॥
मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।
अमृतेशाय शर्वाय महादेवाय ते नमः ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ ७॥
॥ इति मङ्गलाचरणम् ॥
श्रीसीतारामचन्द्राभ्यां नमः ॥
अथ जानकीस्तवराजः ।
तां ध्याये स्तवराजेन प्रोक्तरूपां परात्पराम् ।
आह्लादिनीं हरेःकाञ्चिच्छक्तिं सात्वतसेविताम् ॥ १॥
श्रुतिरुवाच –
कीदृशः स्तवराजोऽयं केन प्रोक्तः सुरेश्वर ।
कथ्यतां कृपया देव! जानकीरूपबोधकः ॥ २॥
श्रीसङ्कर्षण उवाच –
ब्रवीमि स्तवराजं ते श्रीशिवेन प्रभाषितम् ।
श्रुतं श्रीवक्त्रतो दिव्यं पावनानां च पावनम् ॥ ३॥
चकाराराधनं तस्य मन्त्रराजेन भक्तितः ।
कदाचिच्छ्रीशिवोरूपं ज्ञातुमिच्छुर्हरेः परम् ॥ ४॥
दिव्यवर्षशतं वेदविधिना विधिवेदिना ।
जजाप परमं जाप्यं रहस्ये स्थितचेतसा ॥ ५॥
प्रसन्नोभूत्तदा देवः श्रीरामः करुणाकरः ।
मन्त्राराध्येन रूपेण भजनीयः सतां प्रभुः ॥ ६॥
श्रीराम उवाच –
द्रष्टुमिच्छसि यद्रूपं मदीयं भावनास्पदम् ।
आह्लादिनीं परां शक्तिं स्तूयाः सात्वतसम्मताम् ॥ ७॥
तदाराध्यस्तदारामस्तदधीनस्तया विना ।
तिष्ठामि न क्षणां शम्भो ! जीवनं परमं मम ॥ ८॥
इत्युक्त्वा देवदेवेशो वशीकरणमात्मनः ।
पश्यतस्तस्य रूपं स्वमन्तर्धानं दधौ प्रभुः ॥ ९॥
श्रुत्वारूपं तदा शम्भुः तस्याः श्रीहरिवक्त्रतः ।
अचिन्तयत्समाधाय मनः कारणमात्मनः ॥ १०॥
अस्फुरत्कृपया तस्य रूपं तस्याः परात्परम् ।
दुर्निरीक्ष्यं दुराराध्यं सात्वतां हृदयङ्गमम् ॥ ११॥
आश्रयं सर्वलोकानां ध्येयं योगिविदां तथा ।
आराध्यं मुनिमुख्यानां सेव्यं संयमिनां सताम् ॥ १२॥
दृष्ट्वाश्चर्यमयं सर्व रूपं तस्याः सुरेश्वरःं
तुष्टावजानकीं भक्त्या मूर्तिमतीं प्रभाविनीम् ॥ १३॥
स्तुति प्रारम्भः
चरणारविन्द —
वन्दे विदेहतनयापदपुण्डरीकं
कैशोरसौरभसमाहृतयोगिचित्तम् ।
हन्तुं त्रितापमनिशं मुनिहंससेव्यं
सन्मानसालिपरिपीतपरागपुञ्जम् ॥ १४॥
चरणतल —
पादस्य यावकरसेन तलं सुरक्तं
सौभाग्यभाजनमिदं हि परं जनानाम् ।
युक्तीकृतं सुभजतां तव देवि नित्यं
दत्ताश्रयं सुमनसां मनसानुरागम् ॥ १५॥
अङ्गुली —
पादङ्गुलीनखरुचिस्तव देविरम्या
योगीन्द्रवृन्दमनसा विशदा विभाव्या ।
त्रैताप क्लान्त्युपशमाय शशाङ्ककान्ति
दोषेण किं समुपयाति तुलां युता सा ॥ १६॥
नूपुर —
मञ्जीर धीरनिनदं कलहंसकाली
हासाय सा भवति भावयति त्वदीयम् ।
किञ्चायरं रसिकमौलिमनो नियन्तुं
दृष्टं मया परमकौशलमत्र तस्य ॥ १७॥
गुल्फ —
सिद्धीशबुद्धिवररञ्जनगूढगुल्फौ
पादारविन्दयुगलौ जनतापवर्गौ ।
विन्दन्ति ते त्रिभुवनेश्वरि! भावसिद्धिं
ध्यायन्ति ये निखिल सौभगभानुभाजौ ॥ १८॥
श्रीचरण —
हेमाभिवर्द्धितविभूषणभूषितन्ते
त्रैलोक्यतेज इव मञ्जुल-पुञ्जभूतम् ।
भावामि सुन्दरि पदं सरसीरुहाभं
भीताभयप्रदमनन्तमनोभिध्येयम् ॥ १९॥
नितम्ब —
चक्राभहारिसुनितम्बयुगं भवत्यः
ध्येयं सुधीभिरनिशं रसनाभिषक्तम् ।
ध्यानास्पदं रघुपतेर्मनसो मुनीनां
भावैकगम्यममरेशनताङ्घ्रिपद्मे ॥ २०॥
कटि —
कौशेय वस्त्र परिणद्धमलङ्कृतं ते
कार्तस्वराशनिमणि प्रवरप्रवेकैः ।
रत्नोत्तमै रसनया ग्रहकान्तिमद्भि-
र्भास्वन्ति निर्मिततया स्वधियन्ति मध्यम् ॥ २१॥
उदर —
अश्वत्थपत्रनिभमम्ब धियोदरन्ते
भव्यं भवाब्धितरिकेवलकालनाशे ।
भूयो न भावि जननीजठरेनिवास-
स्तेषां मनो धरणिजेऽत्र सुलग्नमासीत् ॥ २२॥
नाभि —
नाभीहृदं हरिमनः करिणः कृशांशो
पुष्टिप्रदं प्रचलितं त्रिवलीतरङ्गम् ।
राजीसुशैवलनिभं भ्रमिभूतरोम्णां
शान्त्यै तव त्रितपतामतिभावयामः ॥ २३॥
वक्षोज —
नीलाभकञ्चुकमणीन्द्रसमूहनिष्कै-
र्वक्षोजयुग्ममतितुङ्गमलङ्कृतन्ते ।
हारैर्मनोहरतरैस्तरुणि! क्षितीजे!
सौन्दर्यवारिनिधिवारितरङ्गसङ्गम् ॥ २४॥
बाहु —
बाहूमृणालमदखण्डनपण्डितौ ते
भीताभयप्रदवदान्यतमौ जनानाम् ।
रुक्माङ्गदाङ्कित-विटङ्कितमुद्रिकौ तौ
हैरण्यकङ्कणधृतावलयौ भजामः ॥ २५॥
कण्ठ —
कण्ठं कपोत-तरुणीगलकान्तिमोषं
भूषैरनेकविधभूषित-मम्ब तुभ्यम् ।
ध्यायेम मानसविशुद्धिकृते कपालो
योगीन्द्रभावितपदे शमदे शरण्ये ॥ २६॥
मुखमण्डल —
वक्त्रेन्दुमिन्दुचयखण्डितमण्डितांशु
खण्डांशपण्डितमनः परिदण्डिताशम् ।
सन्मानसाब्जमुदितद्युतिदं वरेण्यं
रामाक्षितारकचकोरमहं भजे ते ॥ २७॥
मुख —
ताम्बूलरागपरिरञ्जितदन्तपङ्क्ति
प्रद्योतिताधरमधः कृतबिम्बरागम् ।
ईषत्स्मितद्युतिकटाक्षविकाशिताशं
वक्त्रं परेशनयनास्पदमाभजे ते ॥ २८॥
नकबेसर —
नासाग्रमौक्तिकफलं फलदं परेशे
ध्यायन्ति ये च निजजाड्यविनाशहेतो ।
त्रैलोक्यनिर्मलपदं सुमुखं त्वदीयं var सुखदं त्वदीयं
स्वेच्छाभिकाङ्क्षिण इदं बहुसो रसज्ञाः ॥ २९॥
नेत्र —
ज्ञानं निरञ्जनमिदं विवदन्ति ये ते
मुह्यन्ति सूरिनिवहास्तरुणीकटाक्षैः ।
नालोकयन्ति नितरां तव देवितावद्
दीर्घायुषाक्षियुगमञ्जनरञ्जितं ते ॥ ३०॥
भौहें —
भ्रूवल्लरीविलसितं जगदाहुरीशे
व्यासादयो मुनिवरास्तुत एव नित्यम् ।
नाशाय तस्य तरुणीतिलके त्वदीया
पाशीकृता हरिमनोमृगबन्धनाय ॥ ३१॥
भाल —
भालं विशालमतिसौभगभाजनं ते
सिन्दूरविन्दुरुचिरद्युतिदीप्तिमन्तम् ।
पिण्डीकृतःकिमुतराग इतीव तस्मिन्
प्रद्योतते जननि जागतजन्मभाजाम् ॥ ३२॥
कर्ण —
आदर्शवर्तुलकपोलविलोललोलं
कर्णावतंस युगलं जनजाड्यनाशम् ।
सूर्यादिकान्तिहरमाश्रयमोजसान्ते
तीव्रं धिया धरणिजे स्वधियन्ति धीराः ॥ ३३॥
कर्णफूल —
कालोविभेति जगतामतिभक्षकस्ते
जैवातृको भवदसीमगुणो यतो सौ ।
सर्वातिवल्लभतया भजनीय रूपे
मन्यामहे हरिरिति श्रुतिभूषसारम् ॥ ३४॥
केशपाश —
सीमन्तमम्बतव सुन्दरतातिसीमं
मुक्ताविभूषितमलं समभागभाजम् ।
निःसीमतापदकृते यतयो यतन्ति
जानीमहे महितवन्दितसीममूर्ते ॥ ३५॥
वेणी —
कालाहिभीतिभजतामहिभोगभिन्ना
पायात्परेश्वरि सतामवती सदानः ।
एणीदृशस्तव विशालतरा नुवेणी
दर्भाग्रभागसदृशी सुदृशां त्रिलोक्याः ॥ ३६॥ var विलोक्याः
साडी —
साटीसुसूक्ष्मतरातिगताति नीला
सौवर्णसूत्र कलिता कृपयावृताते ।
भर्तुःस्वरूपमनुभावयतां जनानां
प्रीत्यै करोषि परदेवि यदापिधानम् ॥ ३७॥
स्वरूपवर्ण वर्णन —
पारे गिरां गुणनिधे! श्रुतयो वदन्ति
रूपं त्वदीयमपरं मनसोप्यगम्यम् ।
साक्षात् कथं सरसिजाक्षि भवेदृते ते
बुद्धौ कृपामनु कृशोदरि मादृशां तत् ॥ ३८॥
किं चित्रमत्र जननि! प्रभया प्रकाश्यं
विश्वं वदन्ति मुनयस्तव देवि! देवाः ।
जाताश्रयस्त्रिभुवनैर्गुणतोभिवन्द्य-
स्त्राणादिकर्म विभवं परमस्य यस्याः ॥ ३९॥
वेदास्तवाम्ब! विवदन्ति निजस्वरूपं
नित्यानुभूतिभवभावपराः परेशैः ।
निर्णेतुमद्य यतयस्तपसा यतन्ते
बोधाय पादसरसीरुहयुग्मभृङ्गाः ॥ ४०॥
जातं त्वदेव नितरां जगतां निदानं
मन्यामहे तदिदमम्ब! कृतं श्रुतीनाम् ।
सर्वं यतः खलु विचेष्टितमाशु शक्तेः
कार्यं हि कारणगुणानवलम्ब विद्यात् ॥ ४१॥
जानीमहे जननि! ते नयनारविन्द-
स्योन्मीलनेऽजनि जगत् क्षयस्तन्निमीलात् । var क्षयतान्निमीलात्
वैषम्यशून्यसमतां समुपागते य-
त्स्यादस्य पालनमसंशयमस्य नूनम् ॥ ४२॥
ज्ञातन्त्वदीयमपरं चरितं विशालं
भावं भवे ननुनिजे प्रकटीकरोषि ।
प्रेम्णैव तैः प्रथमतः परमानुभावं
भाव्यं पदाब्जमनिशं स्वजनैरतस्ते ॥ ४३॥
येषामदः परमवस्तु च तज्जनानां
प्रद्योतते जनकजाचरणारविन्दम् ।
सर्वंसमीक्ष्य इह कर्ममनोवचोभि-
र्ब्रह्मस्वरूपमतिदुर्लभतानुसेव्यम् ॥ ४४॥
किं दुर्लभं चरणपङ्कजसेवया ते
पूर्णारमन्ति रमणी यतया त्रिलोक्याम् ।
वस्तुप्रकाशविशदं हृदये त्वदीयं
तेषामहो किमुत साधनकोटियत्नैः ॥ ४५॥
धन्यास्त एव तव देवि पदारविन्दं
स्यन्दायमानमकरन्दमहर्निशं ये ।
भृङ्गायमानमनसो नितरां भजन्ते
भावावबोधनिपुणाः परदेवतायाः ॥ ४६॥
पादाब्जरागपरिरञ्जितचित्तभृङ्गो
येषां समीक्ष्य इह जातमिदं स्वरूपम् ।
तेषां न किं प्रवदते परितो वरिष्ठं
साध्यं भवेदिह परत्र न किञ्चिदन्यत् ॥ ४७॥
चुम्बन्ति चिद्घनमहोमकरन्दमस्या
देवैर्मुनीन्द्रनिचयैरति दुर्लभं ते ।
पादाब्जयोरतिविकाशविलासबोध-
र्स्यादेव देवि तवकान्तनिजस्वरूपे ॥ ४८॥
यावन्न ते सरसिजद्युतिहारिपादे
नस्याद्रतिस्तरुनवाङ्कुरखण्डिताशे
तावत्कथं तरुणमौलिमणे जनानां
ज्ञानं दृढं भवति भामिनि रामरूपे ॥ ४९॥
साक्षात्तपोव्रतयमैर्नियमैः समीहे
कर्तुङ्कृपामृतमिह प्रसभं स्वरूपम् ।
नाथस्यते श्रुतिवचो विषयंकथंस्या-
न्मूढोवृथोत्सृजति देवि सुखान्यमूनि ॥ ५०॥
योगाधिरूढमुनयो हरिपादपद्मे
ध्यायन्ति ये चरणपङ्कजयुग्ममन्तः ।
वाञ्छन्ति विघ्नशततोप्यनिवार्यमाणां
भक्तिं भवाब्धितरणाय कृपापयोधे ॥ ५१॥
चार्वङ्गिते चरणचारणवन्दिसङ्गं var चार्वङ्किते
मह्यं विदेह तनये परिदेहि नान्यम् ।
याचेवरं वरविदां वरदे भवत्या
येनामुना तव धवे मम रञ्जना स्यात् ॥ ५२॥
याचेऽहमम्ब रघुनन्दनमूर्तिभावं
सार्द्धं त्वयातिदृढ मञ्जलिनाविशेषम् ।
त्वं देहि वेत्तृवरदे मुनिसङ्घमुख्या-
मन्यन्तिवल्लभतरां स्वपतेभवन्तीम् ॥ ५३॥
उपसंहार —
एवंस्तुत्वा परं रूपं जानक्या जाड्यनाशनम् ।
उपारराम शान्तात्मा योगेश्वरः सदाशिवः ॥ ५४॥
निरीक्ष्य तन्मुखाम्भोजं भावयन् रूपमद्भुतम् ।
काङ्क्षं स्तस्याः परां भक्तिं पादपङ्कजयोर्दृढाम् ॥ ५५॥
उवाच तं वरारोहा जानकी भक्तवत्सला ।
एवमस्तु महादेव यत्त्वयोक्तं च नान्यथा ॥ ५६॥
अन्यत्ते काङ्क्षितं ब्रूहि दास्यामि देवदुर्लभम् ।
सत्याम्मयिकृपोन्मुख्यां न किञ्चिन्तस्यदुर्लभम् ॥ ५७॥
प्रसन्नवदनां दृष्ट्वा सोऽपि देवशिरोमणिः ।
ययाचे वरमात्मीयं रहस्यं भावबोधकः ॥ ५८॥
प्रादात्तस्मै वदान्या सा यद्यन्मनसिकाङ्क्षितम् ।
वरं-वरेश्वरी साक्षात्पुनरुवाच सा हितम् ॥ ५९॥
अयं पवित्रमौलिर्मे स्तवराजः त्वयाशिव ।
प्रकाशितोतिगोप्योऽपि मत्प्रसादात्सुरोत्तम ॥ ६०॥
फलश्रुति निष्काम —
यः पठेदिममग्रे मे पूजाकाले प्रयत्नतः ।
तस्येहामुत्र किञ्चिन्न वस्तुस्याद्दृगगोचरम् ॥ ६१॥
फलश्रुति सकाम —
धनं धान्यं यशः पुत्रानैश्वर्यमतिमानुषम् ।
प्राप्येहामोदते भूयो मत्पदं तद्व्रजेत्सह ॥ ६२॥
यद्यल्लोकोत्तरं वस्तु त्रिषुलोकेषु दृश्यते ।
तत्सर्वमस्य पाठेन प्राप्नुयाद्भुविमानवः ॥ ६३॥
आज्ञा —
इदं मे परमैकान्तं रहस्यं सुरसत्तम ।
न प्रकाश्यं त्वया शम्भो शठाय भावद्वेषिणे ॥ ६४॥
भक्तिर्यस्यातिदेवेशे सर्वैश्वर्ये तथा मयि ।
गुरौसर्वात्म भावेन विद्यतेभक्तिरुत्तमा ॥ ६५॥
तस्मै देयं त्वया शम्भो भावनार्द्रहृदे गुरौ ।
सर्वभूतहितार्थाय शान्ताय सौम्यमूर्तये ॥ ६६॥
इत्युक्त्वा भावनामूर्तिः सीता जनकनन्दिनी ।
कृपापात्राय तस्मै सा पुनः प्रादाद्वरान्तरम् ॥ ६७॥
सर्वदुःखप्रशमनं जानक्यास्तु प्रसादतः ॥ ६८॥
॥ इति श्रीमदगस्त्यसंहितान्तर्गतः परमरहस्यः श्रीजानकीस्तवराजः सम्पूर्णः ॥
इति शुभम् ॥