श्री कौसल्यानन्दन स्तोत्रम् | Shri Kausalya Nandana Stotram
श्रीकौसल्यानन्दनस्तोत्रम् | Shri Kausalyanandana Stotram
श्रीसीतारामस्तवादर्शः
दशरथात्मजं रामं कौसल्यानन्दवर्द्धनं
जानकीवल्लभं वन्दे पूर्णं ब्रह्मसनातनम् ॥ १॥
किरीट-कुण्डलज्योत्स्ना-मञ्जुलं राघवं भजे ।
धनुर्धरं सदा शान्तं सर्वदा सत्कृपाकरम् ॥ २॥
श्रुति-पुराण-सूत्रादि-शास्त्रै र्नित्यं विवेचितम् ।
ऋषि-मुनीन्द्रवर्यैश्च वर्णितं नौमि राघवम् ॥ ३॥
हनुमता सदा वन्द्यं सीतया परिशोभितम् ।
लक्ष्मणेन समाराध्यं श्रीमद्रामं हृदा भजे ॥ ४॥
श्रीभरताग्रजं रामं शत्रुघ्न-सेवितं भजे ।
अयोध्यायां महापुर्यां शोभितं सूर्यवंशजम् ॥ ५॥
वशिष्ठ मुनिना सार्द्ध रामं चारुविभूषितम् ।
सरयूपुलिने नौमि व्रजन्तं सह सीतया ॥ ६॥
नवीननीरदश्यामं नीलाब्जमाल्यधारिणं
नववृन्दादलैरर्च्यं नौमि रामं दयार्णवम् ॥ ७॥
रसिकैः सद्भिराराध्यं महानन्दसुधाप्रदम् ।
गो-विप्रपालकं रामं वन्दे श्रीरघुनन्दनम् ॥ ८॥
ऋषीणां यागरक्षायां सर्वरूपेण तत्परम् ।
वेद-वेदान्ततत्त्वज्ञं श्रीराममभिवादये ॥ ९॥
दशानननिहन्तारं दीनानुग्रहसम्प्रदं
अपरिमेयगाम्भीर्यं श्रीरामं प्रभजे सदा ॥ १०॥
परात्परतरं ब्रह्म मनुजाकृति शोभनम् ।
नारायणं भजे नित्यं राघवं सह सीतया ॥ ११॥
चित्रकूटे महारण्ये मन्दाकिन्या महातटे ।
सीतया शोभितं रामं लक्ष्मणसहितं भजे ॥ १२॥
पीतकौशेयवस्त्रेण लसितं तिलकाऽङ्कितम् ।
नानाऽलङ्कारशोभाऽऽढ्यं रघुनाथं स्मराम्यहम् ॥ १३॥
विलसच्चारुचापञ्च कोटिकन्दर्पसुन्दरम् ।
हनुमता सदाऽऽराध्यं नमामि नवविग्रहम् ॥ १४॥
सागरे सेतुकारञ्च विभीषणसहायकम् ।
वानरसैन्यसङ्घाते राजितं राघवं भजे ॥ १५॥
शवरी-बदरीमञ्जुफलाऽऽस्वादनतत्परं
वन्दे प्रमुदितं रामं दयाधाम कृपार्णवम् ॥ १६॥
श्रीराघवं महाराजं दिव्यमङ्गलविग्रहं
अनन्तनिर्जरैः सेव्यं भावये मुदिताननम् ॥ १७॥
नवजलधरश्यामं श्रीदशरथनन्दनं
अयोध्याधाम भूमध्ये शोभितमनिशं भजे ॥ १८॥
प्रपन्नजीवनाधारं प्रपन्नभक्तवत्सलम् ।
प्रपन्नाऽऽर्तिहरं रामं प्रपन्नपोषकं भजे ॥ १९॥
अचिन्त्यरूपलावण्य-शान्ति-कान्तिमनोहरम् ।
हेमकुण्डलशोभाढ्यं हृदा रामं नमाम्यहम् ॥ २०॥
चित्र-विचित्रकौशेयाऽम्बरशोभितमीश्वरम् ।
अव्ययमखिलात्मानं भजेऽहं राघवं प्रियम् ॥ २१॥
वन्यफलाऽशनाऽभ्यस्तं मन्दाकिन्या महातटे ।
सीतया शोभितं रामं लक्ष्मणसंयुतं भजे ॥ २२॥
नीलाऽरुणोत्पलाऽऽछन्ने भ्रमरावलिगुञ्जिते ।
सरस्तटे समासीनं रामं राज्ञं स्मरामि तम् ॥ २३॥
कौसल्यानन्दनं राममयोध्याधाम्नि पूजितम् ।
भावये विविधैर्भक्तैर्भक्तमनोरथप्रदम् ॥ २४॥
सुग्रीवराज्यदातारं समस्तजगदाश्रयं
असीमकरुणाशीलं नमामि राघवं मुदा ॥ २५॥
वृन्दामाल्यधरं रामं कल्पवृक्षमभीष्टदम् ।
तञ्च प्रदायकं नौमि पुरुषार्थचतुष्टयम् ॥ २६॥
कुसुमवाटिकामध्ये पुष्पार्थं पथि राघवम् ।
विहरन्तं महोदरं लक्ष्मणेन समं भजे ॥ २७॥
क्रीडन्तं सरयूतीरे भ्रातृभिः सह पावने ।
हसन्तं हासयन्तञ्च रामचन्द्रं विभावये ॥ २८॥
राघवं परमे रम्ये प्रासादे हेमनिर्मिते ।
सिंहासनसमासीनं भजामि सह सीतया ॥ २९॥
अश्वासीनं महारण्ये स्वीयपरिकरैः सह ।
श्रीभरतप्रियं रामं प्रणमामि तमीश्वरम् ॥ ३०॥
दर्शनीयं महागम्यं साकेते धाम्नि शोभितम् ।
अमन्दानन्दसन्दोहं श्रीरामं मधुरं भजे ॥ ३१॥
कौसल्यानन्दनस्तोत्रं भुक्ति-मुक्तिप्रदायकम् ।
राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ३२॥
इति श्रीकौसल्यानन्दनस्तोत्रं सम्पूर्णम् ।