श्री कोदण्डपाणि सुप्रभातम् | Shri Kodandapani Suprabhatam
श्री कोदण्डपाणि सुप्रभातम् | Shri Kodandapani Suprabhatam
वन्दे वेङ्कटशेषार्यवत्सवंशशिरोमणिम् ।
वात्स्यश्रीवरदाचार्यतनयं करुणानिधिम् ॥
श्रीरामचन्द्र करुणावरुणालय श्री-
सीतामुखाम्बुजविकासक बालसूर्य!।
सौमित्रिमित्र ! भरताभिरताप्तमित्र !
शत्रुघ्न हे ! रघुपते ! तव सुप्रभातम् ॥ १॥
भास्वानुदेति विकचानि सरोरुहाणि
पश्य स्मरन् मधुरकृजितषड्पदानि ।
त्वद्वीक्षणोन्मिषितनाभिसरोजवेधो
वेदध्वनेः रघुपते ! तव सुप्रभातम् ॥ २॥
त्वां बोधयन्ति परितः श्रुतयः श्रुतीनां
सारेण सानुज! भवत्प्रतिबोधकेन ।
श्लोकेन कौशिक मुखोद्गलितेन कर्ण-
पीयूषवद्रघुपते ! तव सुप्रभातम् ॥ ३॥
त्वां बोधयन्ति विबुधाः श्रुतिभोग्यवेणु-
वीणामृदङ्गपणवादिततानुवादैः ।
स्तोत्रैर्धरासुरवरस्तुतिघोषमित्रैः
आकर्ण्यतां रघुपते ! तव सुप्रभातम् ॥ ४॥
उद्यानवासरसिकाः शुकशारिकाद्याः
हृद्या हरेहरिरिति द्विजघोषहृद्यैः ।
हृद्यां मुदं विदधतीह तवापदान-
पद्यैर्द्विजाः रघुपते ! तव सुप्रभातम् ॥ ५॥
ब्रह्मा शिवश्शतमखश्च मखाशनौघैः
त्वद्धाम गोपुरभुवि प्रतिपालयन्ति ।
त्वत्पादपङ्कजसिषेविषवोऽविशेष-
भक्तैर्द्विजै रघुपते ! तव सुप्रभातम् ॥ ६॥
सूर्येन्दुसन्निधिवशादिव देवसङ्घः
सोत्फुल्लवक्त्रकमलाञ्जलिकुड्मलोकैः ।
मन्दारसुन्दरकरैः प्रतिपाल्यतेऽर्चा-
बद्धादरैः रघुपते ! तव सुप्रभातम् ॥ ७॥
तीर्थाभिषेकपरिशुद्धधियोऽर्चकास्ते
पूर्णाभिषेककलशाः परिचारकाश्च ।
स्तुत्वा भवन्तमभिषेकमुखोपचार-
चर्योत्सुका रघुपते ! तव सुप्रभातम् ॥ ८॥
सीतामुखेन्दुसविधेऽपि सदा प्रसन्नं
मन्दस्मितेन मधुरं सुधयेव लोकैः ।
लम्बाळकाळिललितं तव वक्त्रपद्मं
संशोभतां रघुपते ! तव सुप्रभातम् ॥ ९॥
श्रीकोसलेश्वरपुराकृतभाग्यराशे !
श्रीकोसलेन्द्रतनयानयनाभिराम!।
साकेतसाधुकुलकाङ्क्षितकल्पकश्रीः !
सीतामनोहरमणे ! तव सुप्रभातम् ॥ १०॥
उद्दण्डशौण्डभुजखण्डितखण्डपर्शु-
कोदण्डचण्डरवपिण्डितसाण्डजाण्ड!।
कोदण्डदण्डवरमण्डितबाहुदण्ड !
श्रीखण्डचर्चिततनो ! तव सुप्रभातम् ॥ ११॥
इत्थं वेङ्कटशेषेण सुप्रभातस्तुतिः कृता ।
श्रीरामचरणाम्भोजयुगभूषा समर्पिता ॥ १२॥
नीलोत्पलानि सरसीष्विह सङ्कुचन्ति
सापत्रपाणि तव दृग्तुलयोर्विलासे ।
धामानि ते च विकचानि सरोरुहाणि
श्रीरामचन्द्रदयिते ! तव सुप्रभातम् ॥ १३॥
प्रातस्सुवर्णमणिदर्पणनायिकास्य
वीक्षां वदन्ति सुधियः शुभमेव पत्युः ।
सर्वं त्वदाननविलोकनतोऽस्य सिध्येत्
उत्तिष्ठ मैथिलसुते ! तव सुप्रभातम् ॥ १४॥
॥ इति श्रीकोदण्डपाणिसुप्रभातं समाप्तम् ॥