लघुराघवेन्द्रस्तुतिः
॥ लघु राघवेन्द्रस्तोत्र ॥
॥ लघुराघवेन्द्रस्तुतिः ॥
पूज्याय राघवेन्द्राय सत्यधर्मरताय च ।
भजतां कल्पवृक्षाय नमतां कामधेनवे ॥ १॥
दुर्वादिध्वान्तरवये वैष्णवीन्दीवरीन्दवे ।
नमो श्री राघवेन्द्रगुरवे नमोऽत्यन्तदयाळुवे ॥ २॥
श्रीसुधीन्द्राब्धिसम्भूतान् राघवेन्द्रकलानिधीन् ।
सेवे सज्ञानसौख्यार्थं सन्तापत्रय शान्तये ॥ ३॥
अघं द्रावयते यस्माद्वेङ्कारो वाञ्छितप्रदः ।
राघवेन्द्रयतिस्तस्माल्लोके ख्यातो भविष्यति ॥ ४॥
व्यासेन व्याप्तबीजः श्रुतिभुवि भगवत्पादलब्धाङ्कुरश्रीः ।
प्रत्नैरीषत्प्रभिन्नोऽजनि जयमुनिना सम्यगुद्भिन्नशाखः ।
मौनीशव्यासराजादुदित किसलयः पुष्टितोऽयं जयेन्द्राद् ।
अद्य श्री राघवेन्द्राद्विलसति फलितो मध्वसिद्धान्तशाखी ॥ ६॥
इति श्री लघुराघवेन्द्रस्तुतिः सम्पूर्णम्
॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥